SearchBrowseAboutContactDonate
Page Preview
Page 481
Loading...
Download File
Download File
Page Text
________________ 'धीरः' अक्षोभ्यः सदुद्ध्यलङ्कतो वा देशनावसरे धर्मकथाश्रोतुः 'कर्म' अनुष्ठानं गुरुलघुकर्मभावं वा तथा 'छन्दम्' अभि-|| प्रायं सम्यक् 'विवेचयेत्' जानीयात् , ज्ञाखा च पर्षदनुरूपामेव धर्मकथिको धर्मदेशनां कुर्यात् सर्वथा यथा तस्य श्रोतुर्जीवादि| पदार्थावगमो भवति यथा च मनो न दृष्यते, अपि तु प्रसन्नतां व्रजति, एतदभिसंधिमानाह-विशेषेण नयेद्-अपनयेत् पर्षदः 'पापभावम्' अशुद्धमन्तःकरणं, तुशब्दाद्विशिष्टगुणारोपणं च कुर्यात् , 'आयभावं' ति कचित्पाठः, तस्यायमर्थः-'आत्मभावः' अनादिभवाभ्यस्तो मिथ्याखादिकस्तमपनयेत् , यदिवाऽऽत्मभावो-विषयगृध्नुताऽतस्तमपनयेदिति । एतदर्शयति-'रूपैः' | नयनमनोहारिभिः स्त्रीणामङ्गप्रत्यङ्गार्द्धकटाक्षनिरीक्षणादिभिरल्पसत्त्वा 'विलुप्यन्ते' सद्धर्माद्वाध्यन्ते, किंभूत रूपैः ?-'भयावहै।' | भयमावहन्ति भयावहानि, इहैव तावद्रूपादिविषयासक्तस्य साधुजनजुगुप्सा नानाविधाश्च कर्णनासिकाविकर्तनादिका विडम्बनाः || प्रादुर्भवन्ति जन्मान्तरे च तिर्यड्नरकांदिके यातनास्थाने प्राणिनो विषयासक्ता वेदनामनुभवन्तीत्येवं 'विद्वान्' पण्डितो धर्मदेश| नाभिज्ञो गृहीखा पराभिप्रायं-सम्यगवगम्य पर्षदं त्रसस्थावरेभ्यो हितं धर्ममाविर्भावयेत् ॥ २१॥ पूजासत्कारादिनिरपेक्षेण च सर्वमेव तपश्चरणादिकं विधेयं विशेषतो धर्मदेशनेत्येतदभिप्रायवानाह-साधुर्देशनां विदधानो न पूजनं वस्त्रपात्रादिलाभरूपम| भिकाङ्केनापि श्लोकं-श्लाघां कीर्तिम् आत्मप्रशंसां 'कामयेद्' अभिलषेत् , तथा श्रोतुर्यत्प्रियं राजकथाविकथादिकं छलितकथा| दिकं च तथाऽप्रियं च तत्समाश्रितदेवताविशेषनिन्दादिकं न कथयेद्, अरक्तद्विष्टतया श्रोतुरभिप्रायमभिसमीक्ष्य यथावस्थितं धर्म सम्यग्दर्शनादिकं कथयेत् , उपसंहारमाह-'सर्वाननान्' पूजासत्कारलाभाभिप्रायेण स्वकृतान् परदूषणतया च परकृतान् | 'वर्जयन' परिहरन् कथयेद् 'अनाकुल' सूत्रार्थादनुत्तरन् अकषायी भिक्षुर्भवेदिति ॥ २२ ॥ सर्वाध्ययनोपसंहारार्थमाह eceaestroesekeseseeeee dan Education International For Personal & Private Use Only www.jainelibrary.org
SR No.600218
Book TitleSutrakritangasutram
Original Sutra AuthorShilankacharya
Author
PublisherAgamoday Samiti
Publication Year1917
Total Pages856
LanguageSanskrit
ClassificationManuscript & agam_sutrakritang
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy