SearchBrowseAboutContactDonate
Page Preview
Page 473
Loading...
Download File
Download File
Page Text
________________ पठन्नपि सर्वशास्त्राणि तदर्थ चावगच्छन्नपि नासौ सर्वज्ञमतं परमार्थतो जानातीति ॥९॥ सर्वेषां मदस्थानानामुत्पत्तेरारभ्य जातिमदो बाह्यनिमित्तनिरपेक्षो यतो भवत्यतस्तमधिकृत्याह-यो हि जात्या ब्राह्मणो भवति क्षत्रियो वा-इक्ष्वाकुवंशादिकः, तद्भेदमेव दर्शयति-'उग्रपुत्रः क्षत्रियविशेषजातीयः तथा 'लेच्छईत्ति क्षत्रियविशेष एव, तदेवमादिविशिष्टकुलोद्भूतो यथावस्थितसंसारस्वभाववेदितया यः 'प्रव्रजितः' त्यक्तराज्यादिगृहपाशबन्धनः परैर्दत्तं भोक्तुं शीलमस्य परदत्तभोजी-सम्यक्संयमानुष्ठायी 'गोत्रे' उच्चैर्गोत्रे हरिवंशस्थानीय समुत्पन्नोऽपि नैव 'स्तम्भं' गर्वमुपयायादिति, किंभूते गोत्रे ?-'अभिमानबद्धे' अभिमानास्पदे इति, एतदुक्तं भवति-विशिष्टजातीयतया सर्वलोकाभिमान्योऽपि प्रबजितः सन् कृतशिरस्तुण्डमुण्डनो भिक्षार्थं परगृहाण्यटन् कथं हास्यास्पदं गर्व कुर्यात ?, नैवासी मानं कुयोदिति तात्पयोथैः॥ १०॥ न चासौ मानः क्रियमाणो गुणायेति दर्शयितुमाह-न हि 'तस्य लघुप्रकृतेरभिमानोद्धरस्य जातिमदः कुलमदो वा क्रियमाणः संसारे पर्यटतस्त्राणं भवति, न ह्यभि| मानो जात्यादिक ऐहिकामुष्मिकगुणयोरुपकारीति, इह च मातृसमुत्था जातिः पितृसमुत्थं कुलम् , एतच्चोपलक्षणम् , अन्यदपि , | मदस्थानं न संसारत्राणायेति, यत्पुनः संसारोत्तारकलेन त्राणसमर्थं तद्दर्शयति-ज्ञानं च चरणं च ज्ञानचरणं तस्मादन्यत्र संसा-18 रोत्तारणत्राणाशा न विद्यते, एतच्च सम्यक्खोपबृंहितं सत् सुष्टु चीर्ण सुचीर्ण संसारादुत्तारयति, 'ज्ञानक्रियाभ्यां मोक्ष' इति वच-18 नात् , एवंभूते सत्यपि मोक्षमार्गे 'निष्क्रम्यापि' प्रव्रज्यां गृहीखापि कश्चिदपुष्टधर्मा संसारोन्मुखः 'सेवते अनुतिष्ठत्यभ्यस्यति । पौनःपुन्येन विधत्ते अगारिणां-गृहस्थानामङ्ग-कारणं जात्यादिकं मदस्थानं, पाठान्तरं वा 'अगारिकम्मति अगारिणां कर्म| अनुष्ठानं सावद्यमारम्भं जातिमदादिकं वा सेवते, न चासावगारिकर्मणां सेवकोऽशेषकर्ममोचनाय पारगो भवति, निःशेषकर्मक्ष Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.600218
Book TitleSutrakritangasutram
Original Sutra AuthorShilankacharya
Author
PublisherAgamoday Samiti
Publication Year1917
Total Pages856
LanguageSanskrit
ClassificationManuscript & agam_sutrakritang
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy