________________
भूतानि ? यच्छङ्कयाऽऽरम्भं जुगुप्सन्ति सन्त इत्येतदाशक्याह-ये केचन 'डहरे'त्ति लघवः कुन्थ्वादयः सूक्ष्मा वा, ते सर्वेऽपि प्राणाः-प्राणिनः ये च वृद्धाः-बादरशरीरिणस्तान्सर्वानप्यात्मतुल्यान्-आत्मवत्पश्यति-सर्वस्मिन्नपि लोके यावत्प्रमाणं मम तावदेव कुन्थोरपि, यथा वा मम दुःखमनभिमतमेवं सर्वलोकस्यापि, सर्वेषामपि प्राणिनां दुःखमुत्पद्यते, दुःखाद्वोद्विजन्ति, तथा
चागमः- "पुढविकाए णं भंते ! अकंते समाणे केरिसयं वेयणं वेएइ !" इत्याद्याः सूत्रालापकाः, इति मखा तेऽपि नाक्रमितव्या18न संघट्टनीयाः, इत्येवं यः पश्यति स पश्यति । तथा लोकमिमं महान्तमुत्प्रेक्षते, षड्जीवसूक्ष्मबादरभेदैराकुलखान्महान्तं, यदि
वाऽनाद्यनिधनखान्महान् लोकः, तथाहि-भव्या अपि केचन सर्वेणापि कालेन न सेत्स्यन्तीति, यद्यपि द्रव्यतः षड्द्रव्यात्मकत्वात् क्षेत्रतश्चतुर्दशरज्जुप्रमाणतया सावधिको लोकस्तथापि कालतो भावतश्चानाद्यनिधन खात्पर्यायाणां चानन्तखान्महान् लोकस्तमुत्प्रेक्षत इति । एवं च लोकमुत्प्रेक्षमाणो बुद्धः-अवगततत्त्वः सर्वाणि प्राणिस्थानान्यशाश्वतानि, तथा नात्रापसदे संसारे सुखले| शोऽप्यस्तीत्येवं मन्यमानः 'अप्रमत्तेषु' संयमानुष्ठायिषु यतिषु मध्ये तथाभूत एव परिः-समन्ताद्वजेत् परिव्रजेत् , यदिवा | बुद्धः सन् 'प्रमत्तेषु' गृहस्थेषु अप्रमत्तः सन् संयमानुष्ठाने परिव्रजेदिति ॥ १८॥ किञ्च–'या' स्वयं सर्वज्ञ आत्मनस्त्रैलोक्यो|दरविवरवर्तिपदार्थदर्शी यथाऽवस्थितं लोकं ज्ञाखा तथा यश्च गणधरादिकः 'परतः' तीर्थकरादेर्जीवादीन् पदार्थान् विदिखा प-|| | रेभ्य उपदिशति स एवंभूतो हेयोपादेयवेदी 'आत्मनस्त्रातुमलं' आत्मानं संसारावटात्पालयितुं समर्थो भवति, तथा परेषां च | १ संबन्धे षष्टी अपिना देशादिव्यवच्छेदः । २ उपचरितसर्वलव्यवच्छेदाय, भिन्नं वा वाक्यमेतत् । ३ पृथ्वीकायिको भदन्त ! आक्रान्तः सन् कीदृशी वेदनां वेदयति ? । ४. वर्वाणि स्थाना. प्र.।
Eeeeeeeeeeeeeeeeeeeeeeeer
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org