________________
|'श्रमणा' साधवो 'ब्राह्मणाः संयतासंयताः, लौकिकी वा वाचोयुक्तिः, किम्भूतास्त एवमाख्यान्तीति सम्बन्धः, तथा तथेति वा कचित्पाठा, यथा यथा समाधिमार्गो व्यवस्थितस्तथा तथा कथयन्ति, एतच्च कथयन्ति-यथा यत्किश्चित्संसारान्तर्गतानामसुमतां दुःखम्-असातोदयखभावं, तत्प्रतिपक्षभूतं च सातोदयापादितं सुखं, तत्स्वयम्-आत्मना कृतं, नान्येन कालेश्वरादिना कृतमिति, तथा चोक्तम्-"सेबो पुवकयाणं कम्माणं पावए फलविवागं । अवराहेसुगुणेसु य णिमित्तमित्तं परो होइ ॥१एतच्चाहुस्तीर्थकरगणधरादयः, तद्यथा-विद्या-ज्ञानं चरणं-चारित्रं क्रिया तत्प्रधानो मोक्षस्तमुक्तवन्तो, न ज्ञानक्रियाभ्यां परस्परनिरपेक्षाभ्यामिति, तथा चोक्तम्- "क्रियां च सज्ज्ञानवियोगनिष्फलां, क्रियाविहीनां च विबोधसम्पदम् । निरस्यता क्लेशसमूहशान्तये, खया शिवायालिखितेव पद्धतिः॥१॥" ॥११॥ किश्च-'ते' तीर्थकरगणधरादयोऽतिशयज्ञानिनोऽसिन् लोके चक्षुरिव || चक्षुर्वर्तन्ते, यथा हि चक्षुर्योग्यदेशावस्थितान् पदार्थान् परिच्छिनत्ति एवं तेऽपि लोकस्य यथावस्थितपदार्थाविष्करणं कारयन्ति, तथाऽस्मिन् लोके ते नायकाः-प्रधानाः, तुशब्दो विशेषणे, सदुपदेशदानतो नायका इति, एतदेवाह-'मार्ग ज्ञानादिकं मोक्षमार्ग 'अनुशासति' कथयन्ति प्रजना-प्रजायन्त इति प्रजाः-प्राणिनस्तेषां, किम्भूतं ?, हितं, सद्गतिप्रापकमनर्थनिवारक च, किश्च-चतुर्दशरज्ज्वात्मके लोके पश्चास्तिकायात्मके वा येन येन प्रकारेण द्रव्यास्तिकनयाभिप्रायेण यद्वस्तु शाश्वतं तत्तथा 8 'त आहुः उक्तवन्तः, यदिवा लोकोऽयं प्राणिगणः संसारान्तर्वर्ती यथा यथा शाश्वतो भवति तथा तथैवाहुः, तद्यथा-यथा | यथा मिथ्यादर्शनाभिवृद्धिस्तथा तथा शाश्वतो लोकः, तथाहि-तत्र तीर्थकराहारकवाः सर्व एव कर्मबन्धाः सम्भाव्यन्त इति,
१ नेदं प्रत्यन्तरे। २ सर्वः पूर्वकृतानां कर्मणां प्राप्नोति फलविपाकं । अपराधेषु गुणेषु च निमित्तमात्र परो भवति ॥१॥
Eeeeeeeeeeeeeeeeeeek
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org