________________
सूत्रकृताङ्गं 'जानन्ति' परिच्छिन्दन्ति, न च शून्यादिवादेष्वेतद् घटते, तसादप्रमाणकमेव तैरभिधीयत इति ॥९॥ एवं व्याख्याते सति | S| १२ सभवशीलाङ्का- आह परः-ननु व्यभिचार्यपि श्रुतमुपलभ्यते, तथाहि-चतुर्दशपूर्वविदामपि षट्स्थानपतिसमागम उघुष्यते किं पुनरष्टाङ्गनिमित्त- सरणाध्य० चाीयवृ
शास्त्रविदाम् ?, अत्र चाङ्गवर्जितानां निमित्तशास्त्राणामानुष्टुभेन छन्दसार्धत्रयोदश शतानि सूत्रं तावन्त्येव सहस्राणि वृत्तिस्ताव-| चियुतं
|त्प्रमाणलक्षा परिभाषेति, अङ्गस्य त्वर्धत्रयोदशसहस्राणि सूत्रं, तत्परिमाणलक्षावृत्तिरपरिमितं वार्तिकमिति, तदेवमष्टाङ्गनिमित्तवेदि-18 ॥२१८॥
नामपि परस्परतः षट्स्थानपतितत्वेन व्यभिचारित्वमत इदमाह-'केईत्यादि, छान्दसत्वात्प्राकृतशैल्या वा लिङ्गव्यत्ययः, कानिचिनिमित्तानि 'तथ्यानि' सत्यानि भवन्ति, केषाश्चित्तु निमित्तानां निमित्तवेदिनां वा बुद्धिवैकल्यात्तथाविधक्षयोपशमाभावेन तत् |निमित्तज्ञानं 'विपर्यासं' व्यत्ययमेति, आर्हतानामपि निमित्तव्यभिचारः समुपलभ्यते, किं पुनस्तीथिकानां?, तदेवं निमित्तशास्त्रस्य ॥ व्यभिचारमुपलभ्य 'ते' अक्रियावादिनो 'विद्यासद्भावं' विद्यामनधीयानाः सन्तो निमित्तं तथा चान्यथा च भवतीति मत्वा ते |
'आहंसु विजापलिमोक्खमेव' विद्यायाः श्रुतस्य व्यभिचारेण तस्य परिमोक्षं-परित्यागमाहुः उक्तवन्तः, यदिवा-क्रियाया || अभावाद्विद्यया-ज्ञानेनैव मोक्षं-सर्वकर्मच्युतिलक्षणमाहुरिति । कचिच्चरमपादस्यैवं पाठः, 'जाणामु लोगंसि वयंति मंद'त्ति, |विद्यामनधीत्यैव खयमेव लोकमसिन् वा लोके भावान् स्वयं जानीमः, एवं 'मंदा' जडा वदन्ति, न च निमित्तस्य तथ्यता, | तथाहि-कस्यचित्कचित्क्षुतेऽपि गच्छतः कार्यसिद्धिदर्शनात् , सच्छकुनसद्भावेऽपि कार्यविधातदर्शनाद्, अतो निमित्तबलेनादेशवि-1|॥२१८॥ धायिनां मृषावाद एव केवलमिति, नैतदस्ति, न हि सम्यगधीतस्य श्रुतस्यार्थे विसंवादोऽस्ति, यदपि षट्स्थानपतितखमुद्घोप्यते ४ १ बोधवैकल्यात् यद्वा निमित्तशब्देन निमित्तशास्त्राणि तेन तद्विषयकबुद्धिवैकल्यात् ।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org