________________
Receeeeeeeeeeeeeeeeeeek
आश्रवद्वाराणां रोधेनेन्द्रियनिरोधेन च संवृतः स भिक्षुर्महती प्रज्ञा यस्यासौ महाप्रज्ञो-विपुलबुद्धिरित्यर्थः, तदनेन जीवाजीवादिपदार्थाभिज्ञतावेदिता भवति, 'धीरः' अक्षोभ्यः क्षुत्पिपासादिपरीषहैन क्षोभ्यते, तदेव दर्शयति-आहारोपधिशय्यादिके खस्वामिना तत्संदिष्टेन वा दत्ते सत्येपणां चरति एषणीयं गृह्णातीत्यर्थः, एषणाया एषणायां वा गवेषणग्रहणग्रासरूपायां त्रिविधायामपि सम्यगितः समितः, स साधुनित्यमेषणासमितः सन्ननेषणां 'वर्जयन्' परित्यजन्संयममनुपालयेत् , उपलक्षणार्थवादस्य शेषाभिरपीर्यासमित्यादिभिः समितो द्रष्टव्य इति ॥१३॥ अनेषणीयपरिहारमधिकृत्याह-अभूवन् भवन्ति भविष्यन्ति च प्राणिनस्तानि
भूतानि प्राणिनः 'समारभ्य' संरम्भसमारम्भारम्भैरुपतापयिखातं साधुम्'उद्दिश्य'साध्वर्थ यत्कृतं तदुपकल्पितमाहारोपकरणादिकं 18|| 'तादृशम् आधाकर्मदोषदुष्टं 'सुसंयतः सुतपस्वी तदन्नं पानकं वा न भुञ्जीत, तुशब्दस्यैवकारार्थखान्नैवाभ्यवहरेद् , एवं तेन |
मार्गोऽनुपालितो भवति ॥ १४ ॥ किश्च-आधाकर्माद्यविशुद्धकोट्यवयवेनापि संपृक्तं पूतिकर्म, तदेवंभूतमाहारादिकं 'न सेवेत' नोपभुञ्जीत, एषः-अनन्तरोक्तो धर्मः कल्पः स्वभावः 'वुसीमओ'त्ति सम्यक्संयमवतोऽयमेवानुष्ठानकल्पो यदुताशुद्धमाहारादिकं परिहरतीति, किश्च यदप्यशुद्धवेनाभिकाङ्केत्-शुद्धमप्यशुद्धत्वेनाभिशङ्केत किश्चिदप्याहारादिकं तत् 'सर्वशः' सर्वप्रकारमप्याहारोपकरणपूतिकर्म भोक्तुं न कल्पत इति ॥ १५॥ किश्चान्यत्-धर्मश्रद्धावतां ग्रामेषु नगरेषु वा खेटकर्बटादिषु वा 'स्था
नानि' आश्रयाः 'सन्ति' विद्यन्ते, तत्र तत्स्थानाश्रितः कश्चिद्धर्मोपदेशेन किल धर्मश्रद्धालुतया प्राण्युपमर्दकारिणी धर्मबुद्ध्या 9 कूपतडागखननप्रपासत्रादिकां क्रियां कुर्यात् तेन च तथाभूतक्रियायाः कर्ता किमत्र धर्मोऽस्ति नास्तीत्येवं पृष्टोऽपृष्टो वा तदुप
१ कल्पखभावः प्र. ब्रूमः ।
Jain Education
For Personal & Private Use Only
www.jainelibrary.org