SearchBrowseAboutContactDonate
Page Preview
Page 403
Loading...
Download File
Download File
Page Text
________________ |णोपलादीनां समानजातीयाकुरसद्भावाद्, अर्थोविकाराङ्कुरवत् । तथा सचेतनमम्भः, भूमिखननांदविकृतस्वभावसंभवाद्, दर्दुरवत् । तथा सात्मकं तेजः, तद्योग्याहारवृद्ध्या वृद्ध्युपलब्धेः, बालकवत् । तथा सात्मको वायुः, अपराप्रेरितनियततिरश्चीनगतिमत्त्वात् , गोवत् । तथा सचेतना वनस्पतयः, जन्मजरामरणरोगादीनां समुदितानां सद्भावात् , स्त्रीवत् , तथा क्षतसंरोहणाहारोपादानदौहृदसद्भावस्पर्शसंकोचसायाह्नवापप्रबोधाश्रयोपसर्पणादिभ्यो हेतुभ्यो वनस्पतेश्चैतन्यसिद्धिः। द्वीन्द्रियादीनां तु पुनः कृम्यादीनां स्पष्टमेव चैतन्यं, तद्वेदनाश्चौपक्रमिकाः स्वाभाविकाश्च समुपलभ्य मनोवाक्कायैः कृतकारितानुमतिभिश्च नवकेन भेदेन तत्पी| डाकारिण उपमर्दानिवर्तितव्यमिति ॥ ९॥ एतदेव समर्थयन्नाह-खुशब्दो वाक्यालङ्कारेऽवधारणे वा, 'एतदेव' अनन्तरोक्तं प्राणातिपातनिवर्तनं 'ज्ञानिनों जीवस्वरूपतद्वधकर्मबन्धवेदिनः 'सारं' परमार्थतः प्रधानं, पुनरप्यादरख्यापनार्थमेतदेवाह| यत्कञ्चन प्राणिनमनिष्टदुःखं सुखैषिणं न हिनस्ति, प्रभूतवेदिनोऽपि ज्ञानिन एतदेव सारतरं ज्ञानं यत्प्राणातिपातनिवर्तनमिति, ज्ञानमपि तदेव परमार्थतो यत्परपीडातो निवर्तनं, तथा चोक्तम्-"किं ताए पढियाए? पयकोडीए पलालभूयाए । जत्थित्तियं ण णायं परस्स पीडा न कायवा ॥१॥" तदेवमहिंसाप्रधानः समय-आगमः संकेतो वोपदेशरूपस्तमेवंभूतमहिंसासमयमेतावन्त| मेव विज्ञाय किमन्येन बहुना परिज्ञानेन?, एतावतैव परिज्ञानेन मुमुक्षोर्विवक्षितकार्यपरिसमाप्तेरतो न हिंस्यात्कञ्चनेति ॥१०॥ 18 साम्प्रतं क्षेत्रप्राणातिपातमधिकृत्याह-ऊर्ध्वमधस्तिर्यक् च ये केचन त्रसा:-तेजोवायुद्वीन्द्रियादयः तथा स्थावरा:-पृथिव्यादयः, किं बहुनोक्तेन ?, 'सर्वत्र' प्राणिनि त्रसस्थावरसूक्ष्मवादरभेदभिन्ने 'विरतिं प्राणातिपातनिवृत्तिं 'विजानीयात् कुर्यात् , पर मनाधिकृत । ननाविष्कृत० प्र० । १ किन्तया पठितया पदकोव्यापि पलालभूतया यत्रैतावन्न ज्ञातं परस्य पीडा न कर्तव्या ॥१॥ 12909929999999999 Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.600218
Book TitleSutrakritangasutram
Original Sutra AuthorShilankacharya
Author
PublisherAgamoday Samiti
Publication Year1917
Total Pages856
LanguageSanskrit
ClassificationManuscript & agam_sutrakritang
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy