SearchBrowseAboutContactDonate
Page Preview
Page 399
Loading...
Download File
Download File
Page Text
________________ | निर्दोष सर्वदुःखक्षयकारणं हे भिक्षो! यथा त्वं जानीये 'ण'मिति वाक्यालङ्कारे तथा तं मार्ग सर्वज्ञप्रणीतं 'न:' अस्माकं हे महा मुने! 'ब्रूहि कथयति ॥ २॥ यद्यप्यमाकमसाधारणगुणोपलब्धेर्युष्मत्प्रत्ययेनैव प्रवृत्तिः स्यात् तथाप्यन्येषां मार्गः किंभूतो | मयाऽऽख्येय इत्यभिप्रायवानाह—यदा कदाचित् 'नः' असान् 'केचन' सुलभबोधयः संसारोद्विग्नाः सम्यग्मार्ग पृच्छेयुः, के ते ?-'देवाः' चतुर्निकायाः तथा मनुष्याः-प्रतीताः, बाहुल्येन तयोरेव प्रश्नसद्भावात्तदुपादानं, तेषां पृच्छतां कतरं मार्गमहम् | 'आख्यास्ये' कथयिष्ये, तदेतदस्माकं त्वं जानानः कथयेति ॥३॥ एवं पृष्टः सुधर्मस्वाम्याह-यदि कदाचित् 'व:' युष्मान् केचन देवा मनुष्या वा संसारभ्रान्तिपराभग्नाः सम्यगमार्ग पृच्छेयुस्तेषां पृच्छताम् 'इम'मिति वक्ष्यमाणलक्षणं पड्जीवनिकायप्रतिपादनगर्भ तद्रक्षाप्रवणं मार्ग 'पडिसाहिजे ति प्रतिकथयेत् , 'मार्गसारम्' मार्गपरमार्थ यं भवन्तोऽन्येषां प्रतिपादयिष्यन्ति तत् 'मे' मम कथयतः शृणुत ययमिति, पाठान्तरं वा "तेसिं तु इमं मग्गं आइक्खेज सुणेह में'त्ति उत्तानार्थम् ॥ ४॥ पुनरपि मार्गाभिष्टवं कुर्वन्सुधर्मस्वाम्याह अणुपुत्रेण महाघोरं, कासवेण पवेइयं । जमादाय इओ पुवं, समुदं ववहारिणो ॥५॥ 18|अतरिंसु तरंतेगे, तरिस्संति अणागया। तं सोच्चा पडिवक्खामि, जंतवो तं सुणेह मे ॥ ६॥ || पुढवीजीवा पुढो सत्ता, आउजीवा तहाऽगणी । वाउजीवा पुढो सत्ता, तणरुक्खा सबीयगा ॥७॥ Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.600218
Book TitleSutrakritangasutram
Original Sutra AuthorShilankacharya
Author
PublisherAgamoday Samiti
Publication Year1917
Total Pages856
LanguageSanskrit
ClassificationManuscript & agam_sutrakritang
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy