________________
सूत्रकृताङ्गं
११ मार्गाध्ययनं मानिक्षेपाः
| अन्दोलनमार्गोऽपि यत्रान्दोलनेन दुर्गमतिलङ्घयते, वेत्रमार्गो यत्र वेत्रलतोपष्टम्भेन जलादौ गम्यते इति, तद्यथा-चारुदत्तो शीलाङ्का- वेत्रलतोपष्टम्भेन वेत्रवती नदीमुत्तीर्य परकूलं गतः, रज्जुमार्गस्तु यत्र रज्वा किञ्चिदतिदुर्गमतिलङ्घयते, 'दवनंति यानं चार्यांय- तन्मार्गो दवनमार्गः, बिलमार्गो यत्र तु गुहाद्याकारेण विलेन गम्यते, पाशप्रधानो मार्गः पाशमार्गः पाशकूटवागुरान्वितो मार्ग त्तियुतं इत्यर्थः, कीलकमार्गो यत्र वालुकोत्कटे मरुकादिविषये कीलकाभिज्ञानेन गम्यते, अजमार्गो यत्र अजेन-बस्त्येन गम्यते, तत्॥१९६॥
| यथा सुवर्णभूम्यां चारुदत्तो गत इति, पक्षिमार्गो यत्र भारुण्डादिपक्षिभिर्देशान्तरमवाप्यते, छत्रमार्गो यत्र छत्रमन्तरेण गन्तुं न ९ 18|| शक्यते, जलमार्गो यत्र नावादिना गम्यते, आकाशमार्गो विद्याधरादीनाम् , अयं सर्वोऽपि फलकादिको 'द्रव्ये' द्रव्यविषयेऽवग-18
न्तव्य इति॥ क्षेत्रादिमार्गप्रतिपादनायाह-क्षेत्रमार्गे पर्यालोच्यमाने यस्मिन् 'क्षेत्रे' ग्रामनगरादौ प्रदेशे वा शालिक्षेत्रादिके वा क्षेत्रे | यो याति मार्गो यस्मिन्वा क्षेत्रे व्याख्यायते स क्षेत्रमार्गः, एवं कालेऽप्यायोज्यं । भावे खालोच्यमाने द्विविधो भवति मार्गः, तद्यथाप्रशस्तोप्रशस्तश्चेति । प्रशस्ताप्रशस्तभेदप्रतिपादनायाह-'द्विविधेऽपि' प्रशस्ताप्रशस्तरूपे भावमार्गे प्रत्येकं त्रिविधो भेदो भवति, तत्राप्रशस्तो मिथ्याखमविरतिरज्ञानं चेति, प्रशस्तस्तु सम्यग्दर्शनज्ञानचारित्ररूप इति, 'तस्य' प्रशस्ताप्रशस्तरूपस्य भावमागेस्य 'वि| निश्चयो' निर्णयः फलं कार्य निष्ठा द्वेधा, तद्यथा-प्रशस्तः सुगतिफलोप्रशस्तश्च दुर्गतिफल इति । इह तु पुनः 'प्रस्ताव: अधिकार: 'सुगतिफलेन' प्रशस्तमार्गेणेति ॥ तत्राप्रशस्तं दुर्गतिफलं मार्ग प्रतिपिपादयिषुस्तत्कवृनिर्दिदिक्षुराह-दुर्गतिः फलं यस्य स दुर्गतिफलस्तद्वदनशीला दुर्गतिफलवादिनस्तेषां प्रावादुकानां त्रीणि त्रिषष्ट्यधिकानि शतानि भवन्ति, दुर्गतिफलमार्गोपदेष्टुत्वं च तेषां
॥१९
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org