________________
सूत्रकृताङ्ग शीलाङ्काचार्ययतियुतं
॥१९४॥
| मृतस्य वा, तस्य च क्लेश एव केवलं पापबन्धश्वेत्येवं मला पापानि कर्माणि परित्यजेत्तपश्चरेदिति ॥ १९ ॥ तपश्चरणोपायमधिकृत्याह-यथा 'क्षुद्रमृगा' क्षुद्राटव्यपशवो हरिणजात्याद्या: 'चरन्तः' अटव्यामटन्तः सर्वतो विभ्यतः परिशङ्कमानाः सिंहं व्याघ्रं वा आत्मोपद्रवकारिणं दूरेण परिहृत्य 'चरन्ति' विहरन्ति एवं 'मेधावी' मर्यादावान्, तुर्विशेषणे, सुतरां धर्म 'समीक्ष्य' | पर्यालोच्य 'पाप' कर्म असदनुष्ठानं दूरेण मनोवाक्कायकर्मभिः परिहृत्य परि-समन्ताद्रजेत् संयमानुष्ठायी तपश्चारी च भवेदिति, दूरेण वा पापं - पापहेतुखात्सावद्यानुष्ठानं सिंहमिव मृगः स्वहितमिच्छन् परिवर्जयेत् परित्यजेदिति ॥ २० ॥ अपिच —
Jain Education International
संबुज्झमाणे. उ णरे मतीमं, पावाउ अप्पाण निवट्टएज्जा । हिंसप्पसूयाई दुहाई मत्ता, वेराणुबंधीणि महभयाणि ॥ २१ ॥ मुसं न बूया मुणि अत्तगामी, णिवाणमेयं कसिणं समाहिं । सयं न कुज्जा न य कारवेज्जा, करंतमन्नपि य णाणुजाणे ॥ २२ ॥ सुद्धे सिया जाए न दूसएजा, अमुच्छिए ण य अज्झोववन्ने । धितिमं विमुक्के ण य पूयणट्टी, न सिलोयगामी य परिवएजा ॥ २३ ॥ निक्खम्म गेहाउ निरावकखी, कायं विउसेज्ज नियाणछिन्ने । णो जीवियं णो मरणाभिकखी, चरेज्ज भिक्खू वलया विमुक्के ॥२६॥ त्तिबेमि ॥ ( गाथाग्रं० ५८० ) । इति समाहिनाम दसममज्झयणं समत्तं ॥
For Personal & Private Use Only
१० समाध्यध्ययनं.
॥१९४॥
www.jainelibrary.org