SearchBrowseAboutContactDonate
Page Preview
Page 39
Loading...
Download File
Download File
Page Text
________________ वत् । नापि श्यामाकतन्दुलमात्रोऽङ्गुष्ठपर्वमात्रो वा, तावन्मात्रस्योपात्तशरीराव्यापिखात् , खपर्यन्तशरीरव्यापिखेन चोपलभ्यमानगुणवात् , तस्मात्स्थितमिदम्-उपात्तशरीरबक्पर्यन्तव्याप्यात्मेति । तस्य चानादिकर्मसंबद्धस्य कदाचिदपि सांसारिकस्यात्मनः खरूपेऽनवस्थानात् सत्यप्यमूर्तखे मूर्तेन कर्मणा संबन्धो न विरुध्यते, कर्मसंबन्धाच्च सूक्ष्मबादरैकेन्द्रियद्वित्रिचतुष्पञ्चेन्द्रियपर्याप्ताप| र्याप्ताद्यवस्था बहुविधाः प्रादुर्भवन्ति । तस्य चैकान्तेन क्षणिकत्वे ध्यानाध्ययनश्रमप्रत्यभिज्ञानाद्यभावः एकान्तनित्यवे च नारकतिर्यमनुष्यामरगतिपरिणामाभावः स्यात् तसात्स्यादनित्यः स्यानित्य आत्मेत्यलमतिप्रसङ्गेन ॥ ८॥ साम्प्रतमेकात्माद्वैतवादमुद्देशार्थाधिकारप्रदर्शितं पूर्वपक्षयितुमाह। जहा य पुढवीथूभे, एगे नाणाहि दीसइ । एवं भो ! कसिणे लोए, विन्नू नाणाहि दीसइ ॥९॥ दृष्टान्तवलेनवार्थस्वरूपावगतेः पूर्व दृष्टान्तोपन्यासः, यथेत्युपदर्शने, चशब्दोऽपिशब्दार्थे, स च भिन्नक्रम एके इत्यस्यानन्तरं द्रष्टव्यः, पृथिव्येव स्तूपः पृथिव्या वा स्तूपः पृथिवीसंघाताख्योऽवयवी, स चैकोऽपि यथा नानारूपः-सरित्समुद्रपर्वतनगरसन्निवेशाद्याधारतया विचित्रो दृश्यते निम्नोन्नतमृदुकठिनरक्तपीतादिभेदेन वा दृश्यते, न च तस्य पृथिवीतत्त्वस्यैतावता भेदेन भेदो भवति, 'एवम् उक्तरीत्या 'भो'इति परामत्रणे, कृत्स्नोऽपि लोक:-चेतनाचेतनरूप एको विद्वान् वर्तते, इदमत्र हृदयं-एक एव डात्मा विद्वान ज्ञानपिण्डः पृथिव्यादिभूताद्याकारतया नाना दृश्यते, न च तस्यात्मन एतावताऽऽत्मतत्त्वभेदो भवति, तथा चो|क्तम्-"एक एव हि भूतात्मा, भूते भूते व्यवस्थितः । एकधा बहुधा चैव, दृश्यते जलचन्द्रवत् ॥१॥" तथा 'पुरुष एवेदं निं Teachesterdereeeeeeeeeeeeeeeee सूत्रकृ.४ Jain Education a l For Personal & Private Use Only W anelibrary.org
SR No.600218
Book TitleSutrakritangasutram
Original Sutra AuthorShilankacharya
Author
PublisherAgamoday Samiti
Publication Year1917
Total Pages856
LanguageSanskrit
ClassificationManuscript & agam_sutrakritang
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy