________________
toeserveeeeeeeeeeeee
तच्छीलश्च स तथा, एवम्भूतः पार्श्वस्थावसन्नकुशीलानां संयमोद्योगे विषण्णानां विषण्णभावमेषते, सदनुष्ठानविषण्णतया संसारप-18|
कावसन्नो भवतीतियावत् , अपिच 'स्त्रीषु रमणीषु 'आसक्तः' अध्युपपन्नः पृथक् पृथक् तद्भापितहसितविबोकशरीरावयवेष्विति, K बालवद् 'बाल' अज्ञः सदसद्विवेकविकलः, तदवसक्ततया च नान्यथा-द्रव्यमन्तरेण तत्सम्प्राप्तिर्भवतीत्यतो येन केनचिदुपायेन तदुपायभूतं परिग्रहमेव प्रकर्षेण कुर्वाणः पापं कर्म समुचिनोतीति ॥८॥ तथा
वेराणुगिद्धे णिचयं करेति, इओ चुते स इहमदुग्गं । तम्हा उ मेधावि समिक्ख धम्म, चरे मुणी सबउ विप्पमुक्के ॥ ९॥ आयं ण कुजा इह जीवियट्ठी, असज्जमाणो य परिवएजा। णिसम्मभासी य विणीय गिद्धिं, हिंसन्नियं वा ण कहं करेजा ॥ १०॥ आहाकडं वा ण णिकामएजा, णिकामयंते य ण संथवेज्जा । धुणे उरालं अणुवेहमाणे, चिच्चा ण सोयं अणवेक्खमाणो ॥ ११ ॥ एगत्तमेयं अभिपत्थएज्जा, एवं पमोक्खो न मुसंति पासं । एसप्पमोक्खो अमुसे वरेवि, अकोहणे सच्चरते तवस्सी ॥ १२ ॥ येन केन कर्मणा–परोपतापरूपेण वैरमनुबध्यते जन्मान्तरशतानुयायि भवति तत्र गृद्धो वैरानुगृद्धः, पाठान्तरं वा 'आरंभसत्तो'त्ति आरम्भे सावद्यानुष्ठानरूपे सक्तो लग्नो निरनुकम्पो 'निचयं द्रव्योपचयं तनिमित्तापादितकर्मनिचयं वा 'करोति'
Streereaceaeseseseseseeteach
Jan Education Internaronal
For Personal & Private Use Only
www.jainelibrary.org