SearchBrowseAboutContactDonate
Page Preview
Page 381
Loading...
Download File
Download File
Page Text
________________ ' एतेषु ' प्राङ्गिर्दिष्टेषु प्रत्येकसाधारणप्रकारेणूपता पक्रियया बालवत् 'बालः' अज्ञश्वशब्दादितरोऽपि सङ्घट्टन परितापनापद्रावणा|दिकेनानुष्ठानेन 'पापानि कर्माणि प्रकर्षेण कुर्वाणस्तेषु च पापेषु कर्मसु सत्सु एतेषु वा पृथिव्यादिजन्तुषु गतः संस्तेनैव | संघट्टनादिना प्रकारेणानन्तश: ' आवर्त्यते ' पीड्यते दुःखभाग्भवतीति पाठान्तरं वा 'एवं तु बाले' एवमित्युपप्रदर्शने यथा चौरः पारदारिको वा असदनुष्ठानेन हस्तपादच्छेदान् बन्धवधादींचेहावामोत्येवं सामान्यदृष्टेनानुमानेनान्योऽपि पापकर्मकारी इहामुत्र च दुःखभाग्भवति, 'आउट्टति 'त्ति कचित्पाठः, तत्राशुभान् कर्मविपाकान् दृष्ट्वा श्रुत्वा ज्ञात्वा वा तेभ्योऽसदनुष्ठानेभ्य 'आउहति 'त्ति निवर्तते, कानि पुनः पापस्थानानि येभ्यः पुनः प्रवर्तते निवर्तते वा इत्याशय तानि दर्शयति- 'अतिपाततः ' प्राणातिपाततः प्राणव्यपरोपणाद्धेतोस्तच्चाशुभं ज्ञानावरणादिकं कर्म 'क्रियते' समादीयते, तथा परांश्च भृत्यादीन् प्राणातिपातादौ 'नियोजयन्' व्यापारयन् पापं कर्म करोति, तुशब्दान्मृषावादादिकं च कुर्वन् कारयंश्च पापकं कर्म समुच्चिनोति ॥ ५ ॥ किश्चान्यत्-आ- समन्तादीना - करुणास्पदा वृत्तिः - अनुष्ठानं यस्य कृपणवनीपकादेः स भवत्यादीनवृत्तिः, एवम्भूतोऽपि पापं कर्म करोति, पाठान्तरं वा आदीनभोज्यपि पापं करोतीति, उक्तं च- “पिंडोलगेव दुस्सीले, गरगाओ ण मुच्चइ" स कदाचि - च्छोभनमा हारमलभमानोऽज्ञलादार्तरौद्रध्यानोपगतोऽधः सप्तम्यामप्युत्पद्येत, तद्यथा - असावेव राजगृहनगरोत्सव निर्गत जनसमूह| वैभारगिरिशिलापातनोद्यतः स दैवात्स्वयं पतितः पिण्डोपजीवीति, तदेवमादीनभोज्यपि पिण्डोलकादिवज्जनः पापं कर्म करो - तीत्येवं 'मत्वा' अवधार्य एकान्तेनात्यन्तेन च यो भावरूपो ज्ञानादि समाधिस्तमाहुः संसारोत्तरणाय तीर्थकरगणधरादयः, द्रव्य१ पिण्डावलगकोsपि दुःशीलो नरकान्न मुच्यते ॥ Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.600218
Book TitleSutrakritangasutram
Original Sutra AuthorShilankacharya
Author
PublisherAgamoday Samiti
Publication Year1917
Total Pages856
LanguageSanskrit
ClassificationManuscript & agam_sutrakritang
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy