SearchBrowseAboutContactDonate
Page Preview
Page 377
Loading...
Download File
Download File
Page Text
________________ भिक्खू ॥३॥ सविंदियाभिनिव्वुडे पयासु, चरे मुणी सवतो विप्पमुक्के। पासाहि पाणे य पुढोवि सत्ते, दुक्खेण अहे परितप्पमाणे ॥४॥ अस्स चायमनन्तरसूत्रेण सह सम्बन्धः, तद्यथा-अशेषगारवपरिहारेण मु (ग्रं० ५५००) निर्निवाणमनुसन्धयेदित्येतद्भगवानुत्पन्नदिव्यज्ञानः समाख्यातवान् एतच्च वक्ष्यमाणमाख्यातवानिति, 'आघंति आख्यातवान् कोऽसौ ?-'मतिमान् मननं ISI |मतिः-समस्तपदार्थपरिज्ञानं तद्विद्यते यस्सासौ मतिमान् केवलज्ञानीत्यर्थः, तत्रासाधारणविशेषणोपादानात्तीर्थकुद् गृह्यते, असा|वपि प्रत्यासत्तेर्वीरवर्धमानखामी गृह्यते, किमाख्यातवान् ?-'धर्म' श्रुतचारित्राख्यं, कथम् ?--'अनुविचिन्त्य' केवलज्ञानेन | ज्ञाखा प्रज्ञापनायोग्यान् पदार्थानाश्रित्य धर्म भापते, यदिवा-ग्राहकमनुविचिन्त्य कस्यार्थस्यायं ग्रहणसमर्थः १ तथा कोऽयं पुरुषः कश्च नतः ? किंवा दर्शनमापन्न ? इत्येवं पर्यालोच्य, धर्मशुश्रूषवो वा मन्यन्ते-यथा प्रत्येकमसदभिप्रायमनुविचिन्त्य भगवान् धर्म | 8 भाषते, युगपत्सर्वेषां स्वभाषापरिणत्या संशयापगमादिति, किंभूतं धर्म भाषते ?-'ऋजुम्' अवकं यथावस्थितवस्तुखरूपनिरूप-18 णतो, न यथा शाक्याः सर्व क्षणिकमभ्युपगम्य कृतनाशाकृताभ्यागमदोषभयात्सन्तानाभ्युपगमं कृतवन्तः तथा वनस्पतिमचेतनखेनाभ्युपगम्य स्वयं न छिन्दन्ति तच्छेदनादावुपदेशं तु ददति तथा कार्षापणादिकं हिरण्यं खतो न स्पृशन्ति अपरेण तु तत्परिग्रहतः क्रयविक्रय कारयन्ति, तथा साङ्ख्याः सर्वमप्रच्युतानुत्पन्नस्थिरैकखभावं नित्यमभ्युपगम्य कर्मबन्धमोक्षाभावप्रसङ्गदोप| भयादाविर्भावतिरोभावावाश्रितवन्त इत्यादिकौटिल्यभावपरिहारेणावकं तथ्यं धर्ममाख्यातवान् , तथा सम्यगाधीयते-मोक्षं तन्मार्ग 299999-8890200303 Jain Education Interational For Personal & Private Use Only www.jainelibrary.org
SR No.600218
Book TitleSutrakritangasutram
Original Sutra AuthorShilankacharya
Author
PublisherAgamoday Samiti
Publication Year1917
Total Pages856
LanguageSanskrit
ClassificationManuscript & agam_sutrakritang
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy