SearchBrowseAboutContactDonate
Page Preview
Page 369
Loading...
Download File
Download File
Page Text
________________ ॥ धर्माधारं वर्तयेत् , उक्तं च-"अप्पेण बहुमेसेजा, एयं पंडियलक्खणं" इति, तथा-"शरीरं धर्मसंयुक्तं, रक्षणीयं प्रयत्नतः । शरी रात् स्रवते धर्मः, पर्वतात्सलिलं यथा ॥१॥" तथा साम्प्रतमल्पानि संहननानि अल्पधृतयश्च संयमे जन्तव इत्येवमादि कुशीलोक्तं || श्रुखा अल्पसत्त्वास्तत्रानुषजन्तीति 'विद्वान्' विवेकी 'प्रतिबुध्येत' जानीयात् बुद्धा चापायरूपं कुशीलसंसर्ग परिहरेदिति ॥२८॥ किश्चान्यत् नन्नत्थ अंतराएणं, परगेहे ण णिसीयए। गामकुमारियं किडं, नातिवेलं हसे मुणी ॥ २९॥ अणुस्सुओ उरालेसु, जयमाणो परिवए । चरियाए अप्पमत्तो, पुट्टो तत्थाहियासए ॥ ३०॥ हम्ममाणो ण कुप्पेज, वुच्चमाणो न संजले । सुमणे अहियासिजा, ण य कोलाहलं करे ॥३१॥ लद्धे कामे ण पत्थेज्जा, विवेगे एवमौहिए । आयरियाइं सिक्खेजा, बुद्धाणं अंतिए सया ॥ ३२॥ तत्र साधुर्भिक्षादिनिमित्तं ग्रामादौ प्रविष्टः सन् परो-गृहस्थस्तस्य गृहं परगृहं तत्र 'न निषीदेत् ' नोपविशेत् उत्सर्गतः, अस्थापवादं दर्शयति-नान्यत्र 'अन्तरायणे'ति अन्तरायः शक्त्यभावः, स च जरसा रोगातङ्काभ्यां सात् , तसिंश्चान्तराये सत्युपविशेत् यदिवा-उपशमलब्धिमान् कश्चित्सुसहायो गुर्वनुज्ञातः कस्यचित्तथाविधस्य धर्मदेशनानिमित्तमुपविशेदपि, तथा ग्रामे कुमारका ग्रामकुमारकास्तेषामियं ग्रामकुमारिका काऽसौ ?-'क्रीडा' हास्यकन्दर्पहस्तसंस्पर्शनालिङ्गनादिका यदिवा वट्टकन्दुकादिका तां मुनिर्न १ अल्पेन बहु एषयेत् एतत् पण्डितलक्षणं । २ पापं प्र. । ३ एसमाहिए प्र.। Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.600218
Book TitleSutrakritangasutram
Original Sutra AuthorShilankacharya
Author
PublisherAgamoday Samiti
Publication Year1917
Total Pages856
LanguageSanskrit
ClassificationManuscript & agam_sutrakritang
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy