________________
029092020908050000000000000000
होलावायं सहीवायं, गोयावायं च नो वदे । तुमं तुमंति अमणुन्नं, सबसो तं ण वत्तए ॥ २७ ॥३॥
अकुसीले सया भिक्खू , णेव संसग्गियं भए । सुहरूवा तत्थुवस्सग्गा, पडिबुज्झेज ते विऊ ॥२८॥ || । यो हि भाषासमितः स भाषमाणोऽपि धर्मकथासम्बन्धमभाषक एव स्यात्, उक्तं च-"वयणविहत्तीकुसलो वओगयं बहुविहं वियाणतो । दिवसंपि भासमाणो साहू वयगुत्तयं पत्तो ॥१॥" यदिवा-यत्रान्यः कश्चिद्रत्नाधिको भाषमाणस्तत्रान्तर एव8 सश्रुतिकोऽहमित्येवमभिमानवान्न भाषेत, तथा मर्म गच्छतीति मर्मगं वचोन 'वंफेज'त्ति नाभिलषेत् , यद्वचनमुच्यमानं तथ्यमतथ्यं । वा सद्यस्य कस्यचिन्मनःपीडामाधत्ते तद्विवेकी न भाषेतेति भावः, यदिवा 'मामक' ममीकारः पक्षपातस्तं भाषमाणोऽन्यदा वा 'न बफेजति' नाभिलपेत् , तथा 'मातृस्थान' मायाप्रधानं वचो विवर्जयेत् , इदमुक्तं भवति-परवञ्चनबुद्ध्या गूढाचारप्रधानो भाषमाणोऽभाषमाणो वाऽन्यदा वा मातृस्थानं न कुर्यादिति, यदा तु वक्तुकामो भवति तदा नैतद्वचः परात्मनोरुभयोर्वा बाधकमित्येवं प्राग्विचिन्त्य वचनमुदाहरेत् , तदुक्तम्-"पुत्विं बुद्धीऍ पेहित्ता, पच्छा वक्कमुदाहरे" इत्यादि ॥२५॥ अपिच-सत्या असत्या | सत्यामृषा असत्यामृषेत्येवंरूपासु चतसृषु भाषासु मध्ये तत्रेयं सत्यामृषेत्येतदभिधाना तृतीया भाषा, सा च किश्चिन्मृषा | | किश्चित्सत्या इत्येवंरूपा, तद्यथा-दश दारका असिन्नगरे जाता मृता वा, तदत्र न्यूनाधिकसम्भवे सति सङ्ख्याया व्यभि
१ वचनविभक्तिकुशलो वचोगतं बहुविधं विजानन् । दिवसमपि भाषमाणः साधुर्वचनगुप्तिसम्प्राप्तः ॥१॥ २ तहावि द.अ० नि। ३० न्यदा वा प्र.। ४ पूर्व बुद्ध्या प्रेक्षयिला पश्चाद् वाक्यमुदाहरेत् ।
esecessetteseeeeeeea
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org