________________
सूत्रकृताङ्गं शीलाङ्काचा-यव
त्तियुतं ॥१८॥
अर्यते इत्यर्थो-धनधान्यहिरण्यादिकः पद्यते-गम्यते येनार्थस्तत्पदं-शास्त्र अर्थार्थ पदमर्थपदं चाणाक्यादिकमर्थशास्त्रं तन्न 'शिक्षेत्' नाभ्यस्येत् नाप्यपरं प्राण्युपमर्दकारि शास्त्रं शिक्षयेत् , यदिवा-'अष्टापदं'द्यूतक्रीडाविशेषस्तं न शिक्षेत, नापि पूर्वशि
ध्ययनं. क्षितमनुशीलयेदिति, तथा 'वेधो' धर्मानुवेधस्तसादतीतं सद्धर्मानुवेधातीतम्-अधर्मप्रधानं वचो नो वदेत् यदिवा-वेध इति वस्त्रवेधो द्यूतविशेषस्तद्गतं वचनमपि नो वदेद् आस्तां तावत्कीडनमिति, हस्तकर्म प्रतीतं, यदिवा 'हस्तकर्म' हस्तक्रिया परस्परं हस्त-20 व्यापारप्रधानः कलहस्तं, तथा विरुद्धवाद विवाद शुष्कवादमित्यर्थः, चः समुच्चये, तदेतत्सर्वं संसारभ्रमणकारणं ज्ञपरिज्ञया परिज्ञाय प्रत्याख्यानपरिज्ञया प्रत्याचक्षीत ॥१७॥ किश्च उपानहौ-काष्ठपादुके च तथा आतपादिनिवारणाय छत्रं तथा 'नालिका द्यूतक्रीडाविशेषस्तथा वालैः मयूरपिच्छै; व्यजनक, तथा परेषां सम्बन्धिनी क्रियामन्योऽन्य-परस्परतोऽन्यनिष्पाद्यामन्यः करोत्यपरनिष्पाद्या चापर इति, चः समुच्चये, तदेतत्सर्व 'विद्वान्' पण्डितः कर्मोपादानकारणखेन ज्ञपरिज्ञया परिज्ञाय प्रत्याख्यान| परिज्ञया परिहरेदिति ॥ १८ ॥ तथा उच्चारप्रस्रवणादिकां क्रियां हरितेषूपरि बीजेषु वा अस्थण्डिले वा 'मुनिः' साधुने कुर्यात् ॥
तथा 'विकटेन' विगतजीवेनाप्युदकेन 'संहृत्य' अपनीय बीजानि हरितानि वा 'नाचमेत' न निर्लेपनं कुर्यात् , किमुताविकटे-| | नेतिभावः ॥ १९॥ किश्च परस्य-गृहस्थस्यामत्रं-भाजनं परामत्रं तत्र पुरःकर्मपश्चात्कर्मभयात् हृतनष्टादिदोषसम्भवाच्च अन्न ||
॥१८१॥ | पानं च मुनिर्न कदाचिदपि भुञ्जीत, यदिवा-पतगृहधारिणश्छिद्रपाणेः पाणिपात्रं परपात्रं, यदिवा-पाणिपात्रस्याच्छिद्रपाणेर्जि
नकल्पिकादेः पतगृहः परपात्रं तत्र संयमविराधनाभयान भुञ्जीत तथा परस्य-गृहस्थस्य वस्त्रं परवस्त्रं तत्साधुरचेलोऽपि सन् | | पश्चात्कर्मादिदोषभयात् हृतनष्टादिदोषसम्भवाच्च न बिभृयात् , यदिवा-जिनकल्पिकादिकोऽचेलो भूखा सर्वमपि वस्त्रं परवस्खमिति
Bain Education International
For Personal & Private Use Only
www.jainelibrary.org