________________
अथ नवमं अध्ययनं प्रारभ्यते ॥
৬
अष्टमानन्तरं नवमं समारभ्यते, अस्य चायमभिसम्बन्धः - इहानन्तराध्ययने बालपण्डितभेदेन द्विरूपं वीर्यं प्रतिपादितं, अत्रापि तदेव पण्डितवीर्यं धर्मं प्रति यदुद्यमं विधत्ते अतो धर्मः प्रतिपाद्यत इत्यनेन सम्बन्धेन धर्माध्ययनमायातं, अस्य चत्वार्यनुयोगद्वाराणि उपक्रमादीनि प्राग्वत् व्यावर्णनीयानि, तत्राप्युपक्रमान्तर्गतोऽर्थाधिकारोऽयं, तद्यथा-धर्मोऽत्र प्रतिपाद्यत इति तम| धिकृत्य निर्युक्तिकृदाह
Jain Education International
धम्मो yogesो भावधम्मेण एत्थ अहिगारो । एसेव होइ धम्मे एसेव समाहिमग्गोति ॥ ९९ ॥ दुर्गतिगमनधरणलक्षणो धर्मः प्राक् दशवैकालिकश्रुतस्कन्धषष्ठाध्ययने धर्मार्थकामाख्ये उद्दिष्टः – प्रतिपादितः, इह तु भावधर्मेणाधिकारः, एष एव च भावधर्मः परमार्थतो धर्मो भवति, अमुमेवार्थमुत्तरयोरप्यध्ययनयोरतिदिशन्नाह - एष एव च भाव| समाधिर्भावमार्गश्च भवतीत्यवगन्तव्यमिति, यदिवैष एव च भावधर्मः एष एव च भावसमाधिरेष एव च तथा भावमार्गो भवति, न तेषां परमार्थतः कश्चिद्भेदः, तथाहि - धर्मः श्रुतचारित्राख्यः क्षान्त्यादिलक्षणो वा दशप्रकारो भवेत्, भावसमाधिरप्येवंभूत एव, तथाहि - सम्यगाधानम् - आरोपणं गुणानां क्षान्त्यादीनामिति समाधिः, तदेवं मुक्तिमार्गोऽपि ज्ञानदर्शनचारित्राख्यो भावधर्मतया व्याख्यानयितव्य इति । साम्प्रतमतिदिष्टस्यापि स्थानाशून्यार्थ धर्मस्य नामादिनिक्षेपं दर्शयितुमाह
For Personal & Private Use Only
www.jainelibrary.org