________________
Detecticeaesereotoececeedeces
| यतीनां पण्डितवीर्य सादिसपर्यवसितं, सर्वविरतिप्रतिपत्तिकाले सादिता सिद्धावस्थायां तदभावात्सान्तं, बालपण्डितवीर्य तु देशविरतिसद्भावकाले सादि सर्वविरतिसद्भावे तदंशे वा सपर्यवसानं, बालवीर्य खविरतिलक्षणमेवाभव्यानामनाद्यपर्यवसितं भव्यानां
खनादिसपर्यवसितं, सादिसपर्यवसितं तु विरतिभ्रंशात् सादिता पुनर्जघन्यतोऽन्तर्मुहूर्तादुत्कृष्टतोऽपार्द्धपुद्गलपरावर्तात् विरतिसद्भावात् A सान्ततेति, साद्यपर्यवसितस्य तृतीयभङ्गकस्य खसम्भव एव, यदिवा–पण्डितवीर्य सर्वविरतिलक्षणं, विरतिरपि चारित्रमोहनीय
क्षयक्षयोपशमोपशमलक्षणात्रिविधैव, अतो वीर्यमपि त्रिधैव भवति । गतो नामनिष्पन्नो निक्षेपः, तदनु सूत्रानुगमेऽस्खलितादिगु-18 णोपेतं सूत्रमुच्चारयितव्यं, तच्चेदं
दुहा वेयं सुयक्खायं, वीरियंति पवुच्चई । किं नु वीरस्स वीरत्तं, कहं चेयं पवुच्चई ? ॥१॥ कम्ममेगे पवेदेति, अकम्मं वावि सुवया । एतेहिं दोहि ठाणेहिं, जेहिं दीसंति मच्चिया ॥२॥
द्वे विधे-प्रकारावस्येति द्विविधं-द्विप्रकार, प्रत्यक्षासन्नवाचिखात् इदमो यदनन्तरं प्रकर्षणोच्यते प्रोच्यते वीर्य तविभेदं सुष्ठाख्यातं स्वाख्यातं तीर्थकरादिभिः, वा वाक्यालङ्कारे, तत्र 'ईरं गतिप्रेरणयोः' विशेषेण ईरयति-प्रेरयति अहितं येन तद्वीय जीवस्य शक्तिविशेष इत्यर्थः, तत्र, किं नु 'वीरस्य सुभटस्य वीरखं?, केन वा कारणेनासौ वीर इत्यभिधीयते, नुशब्दो वितर्कवाची, एतद्वितर्कयति-किं तद्वीय ?, वीरस्य वा किं तद्वीरखमिति ॥१॥ तत्र भेदद्वारेण वीर्यस्वरूपमाचिख्यासुराह-कर्म-क्रियानुष्ठानमित्येतदेके वीर्यमिति प्रवेदयन्ति, यदिवा-काष्टप्रकारं कारणे कार्योपचारात् तदेव वीर्यमिति प्रवेदयन्ति, तथाहि-औदयिकभावनिष्पन्न
JOBSB989eSSSSSS
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org