________________
eeeeeeeeeeeeeeeeeeee
अयं दारकः परिवर्धमानः शिलामेनामुद्धत्तुं हस्तिनं दमयितुमश्वं वाहयितुमित्यादि, इन्द्रियबलमपि श्रोत्रेन्द्रियादि स्खविषयग्रहणसमर्थ पञ्चधा एकैकं, द्विविधं-सम्भवे सम्भाव्ये च, सम्भवे यथा श्रोत्रस्य द्वादश योजनानि विषयः, एवं शेषाणामपि यो यस्य विषय इति, सम्भाव्ये तु यस्य कस्यचिदनुपहतेन्द्रियस्य श्रान्तस्य क्रुद्धस्य पिपासितस्य परिग्लानस्य वा अर्थग्रहणासमर्थमपि इन्द्रियं सद्यथोक्तदोषोपशमे तु सति सम्भाव्यते विषयग्रहणायेति । साम्प्रतमाध्यात्मिक वीय दर्शयितुमाह
उज्जमधितिधीरत्तं सोंडीरत्तं खमा य गंभीरं । उवओगजोगतवसंजमादियं होइ अज्झप्पो॥९६॥ आत्मन्यधीत्यध्यात्म तत्र भवमाध्यात्मिकम्-आन्तरशक्तिजनितं सात्त्विकमित्यर्थः, तच्चानेकधा-तत्रोद्यमो ज्ञानतपोऽनुष्ठानादिपूत्साहः, एतदपि यथायोगं सम्भवे सम्भाव्ये च योजनीयमिति, धृतिः संयमे स्थैर्य चित्तसमाधानमिति(यावत), धीरत्वं परीपहोपसर्गाक्षोभ्यता, शौण्डीर्य त्यागसम्पन्नता, पट्खण्डमपि भरतं त्यजतश्चक्रवर्तिनोन मनः कम्पते,यदिवाऽऽपद्यविषण्णता, यदिवा| विषमेऽपि कर्तव्ये समुपस्थिते पराभियोगमकुर्वन् मयैवैतत्कर्तव्यमित्येवं हर्षायमाणोऽविषण्णो विधत्त इति, क्षमावीर्य तु परैराक्रुश्यमानोऽपि मनागपि मनसा न क्षोभमुपयाति, भावयति (च तत्त्वं,) तच्चेदम्-"आक्रुष्टेन मतिमता तत्त्वार्थगवेषणे मतिः कार्या। यदि सत्यं कः कोपः स्यादनृतं किं नु कोपेन? ॥१॥" तथा "अकोसहणणमारणधम्मभंसाण बालसुलभाणं । लाभं मन्नइ धीरो जहुत्तराणं अभावं (लाभ) मि ॥१॥" गाम्भीर्यवीर्य नाम परीषहोपसगैरधृष्यवं, यदिवा यत् मनश्चमत्कारकारिण्यपि खानुष्ठाने १माकोशहननमारणधर्मभ्रंशाना बालसुलभाना लाभं मन्यते धीरो यथोत्तराणामभावे ॥१॥
कर्तव्ये समुपस्थिते पराभिमानता, पखण्डमपि भरतं त्यजतश्चकवातिनालय चित्तसमाधानमिति(यावत्), धीरत्वपशप
Pr" तथा सच तचेदम् - "आवषण्णो विधत्त मद्यविषण्णता, व परीप
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org