________________
'सातं' सुखं 'प्रत्युपेक्ष्य' पर्यालोच्य 'जानीहि ' अवगच्छेति, यत उक्तम्- “पढमं नाणं तयो दया, एवं चिट्ठह सब संजए । अन्नाणी किं काही, किंवा णाही छेयपावगं ॥ १ ॥ इत्यादि " ||१९|| ये पुन: प्राण्युपमर्द्देन सातमभिलषन्तीत्यशीलाः कुशीलाश्च ते संसारे एवंविधा अवस्था अनुभवन्तीत्याह - तेजःकायसमारम्भिणो भूतसमारम्भेण सुखमभिलषन्तो नरकादिगतिं गतास्तीबदुः खैः पीड्यमाना असह्यवेदनाघ्रातमानसा अशरणाः 'स्तनन्ति' रुदनति केवलं करुणमाक्रन्दन्तीतियावत् तथा 'लुप्पंती' ति छिद्यन्ते खड्गादिभिरेवं च कदर्थ्यमानाः 'त्रस्यन्ति' प्रपलायन्ते, कर्माण्येषां सन्तीति कर्मिणः - सपापा इत्यर्थः, तथा पृथक् 'जंगा' इति जन्तव इति, एवं 'परिसङ्ख्याय' ज्ञाला भिक्षणशीलो 'भिक्षुः' साधुरित्यर्थः, यस्मात्प्राण्युपमर्दकारिणः संसारान्तर्गता विलुप्यन्ते तस्मात् 'विद्वान' पण्डितो विरतः पापानुष्ठानादात्मा गुप्तो यस्य सोऽयमात्मगुप्तो मनोवाक्कायगुप्त इत्यर्थः, दृष्ट्वा च त्रसान् चशदात्स्थावरांच 'दृष्ट्वा' परिज्ञाय तदुपघातकारिणीं क्रियां 'प्रतिसंहरेत्' निवर्तयेदिति ॥ २० ॥ साम्प्रतं स्वयूथ्याः कुशीला अभिधीयन्त इत्याह-'ये' केचन शीतलविहारिणो धर्मेण - मुधिकया लब्धं धर्मलब्धं उद्देशकक्रीतकृतादिदोषरहितमित्यर्थः, तदेवम्भूतमप्याहारजातं. 'विनिधाय' व्यवस्थाप्य सन्निधिं कृत्वा भुञ्जन्ते तथा ये 'विकटेन' प्रासुकोदकेनापि सङ्कोच्याङ्गानि प्रासुक एव प्रदेशे देशसर्वत्रानं कुर्वन्ति तथा यो वस्त्रं 'धावति' प्रक्षालयति तथा 'लूषयति' शोभार्थं दीर्घमुत्पाटयित्वा दखं करोति हखं वा सन्धाय दीर्घं करोति एवं लूपयति, तदेवं स्वार्थं परार्थं वा यो वस्त्रं लूषयति, अथासौ 'णागणियस्स' त्ति निर्ग्रन्थभावस्य संयमानुष्ठानस्य दूरे वर्तते, न तस्य संयमो भवतीत्येवं तीर्थंकरगणधरादय आहुरिति ॥ २१ ॥ उक्ताः कुशीलाः, तत्प्रतिपक्ष
१ प्रथमं ज्ञानं ततो दया एवं तिष्ठति सर्वसंयतेषु अज्ञानी किं करिष्यति किं वाज्ञास्यति छेकपापकं ॥
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org