________________
सूत्रकृताङ्ग शीलाङ्काचार्ययवृतियुतं
॥१६१॥
क्खू । तम्हा विऊ विरतो आयगुत्ते, दट्टु तसे या पडिसंहरेजा ॥ २० ॥ जे धम्मलन्डं विणिहाय भुंजे, वियडेण साहद्दु य जे सिणाई । जे धोवती लसयतीव वत्थं, अहाहु से णागणियस्स दूरे ॥ २१ ॥ कम्मं परिन्नाय दगंसि धीरे, वियडेण जीविज्ज य आदिमोक्खं । से बीयकंदाइ अभुंजमाणे, विरते सिणाणाइसु इत्थियासु ॥ २२ ॥
यैर्मुमुक्षुभिरुदकसम्पर्केणाग्निहोत्रेण वा सिद्धिरभिहिता तैः 'अपरीक्ष्य दृष्टमेतत्' युक्तिविकलमभिहितमेतत् किमिति ? यतो 'नहु' नैव 'एवम्' अनेन प्रकारेण जलावगाहनेन अग्निहोत्रेण वा प्राण्युपमर्द्दकारिणा सिद्धिरिति, ते च परमार्थमबुद्ध्यमानाः | प्राण्युपघातेन पापमेव धर्मबुद्ध्या कुर्वन्तो घात्यन्ते – व्यापाद्यन्ते नानाविधैः प्रकारैर्यस्मिन् प्राणिनः स घातः - संसारस्तमेष्यन्ति, अकायतेजः कायसमारम्भेण हि त्रसस्थावराणां प्राणिनामवश्यं भावी विनाशस्तद्विनाशे च संसार एव न सिद्धिरित्यभिप्रायः, | यत एवं ततो 'विद्वान' सदसद्विवेकी यथावस्थिततत्वं गृहीत्वा त्रसस्थावरैर्भूतैः – जन्तुभिः कथं साम्प्रतं सुखमवाप्यत इत्ये| तत् प्रत्युपेक्ष्य जानीहि -अवबुद्ध्यख, एतदुक्तं भवति - सर्वेऽप्यसुमन्तः सुखैषिणो दुःखद्विषो, न च तेषां सुखैषिणां दुःखोत्पादकलेन सुखावाप्तिर्भवतीति यदिवा - 'विज्जं गहाय'त्ति विद्यां ज्ञानं गृहीला विवेकमुपादाय सस्थावरैर्भूतैर्जन्तुभिः करणभूतैः।
Jain Education International
For Personal & Private Use Only
७ कुशीलपरिभाषा.
॥१६१॥
www.jainelibrary.org