SearchBrowseAboutContactDonate
Page Preview
Page 320
Loading...
Download File
Download File
Page Text
________________ सूत्रकृताङ्गं त्याग एव कृतो भवति, तत्यागाच मोक्षावाप्तिरित्येवं केचन मूढाः प्रतिपादयन्ति, पाठान्तरं वा 'आहारओ पंचकवजणेणं'||७ कुशीलशीलाङ्का- आहारत इति ल्यब्लोपे कर्मणि पञ्चमी आहारमाश्रित्य पञ्चकं वर्जयन्ति, तद्यथा-लसुणं पलाण्डुः करभीक्षीरंगोमांसं मद्यं चेत्ये-18| परिभाषा. चायीयवृ- तत्पञ्चकवर्जनेन मोक्षं प्रवदन्ति, तथैके 'वारिभद्रकादयों भागवतविशेषाः 'शीतोदकसेवनेन' सचित्तापकायपरिभोगेन मोक्षं चियुत प्रवदन्ति, उपपत्तिं च ते अभिदधति-यथोदकं बाह्यमलमपनयति एवमान्तरमपि, वस्त्रादेश्च यथोदकाच्छुद्धिरुपजायते एवं बाय॥१५९॥ शुद्धिसामर्थ्यदर्शनादान्तरापि शुद्धिरुदकादेवेति मन्यन्ते, तथैके तापसब्राह्मणादयो हुतेन मोक्ष प्रतिपादयन्ति, ये किल स्वर्गादि| फलमनाशंस्य समिधाघृतादिभिर्हव्यविशेषैर्हताशनं तर्पयन्ति ते मोक्षायाग्निहोत्रं जुबति शेषास्त्रभ्युदयायेति, युक्तिं चात्र ते आहुः| यथा ह्यग्निः सुवर्णादीनां मलं दहत्येवं दहनसामर्थ्यदर्शनादात्मनोऽप्यान्तरं पापमिति ॥ १२ ॥ तेषामसम्बद्धप्रलापिनामुत्तरदाना1 याह-'प्रातः स्नानादिषु नास्ति मोक्ष' इति प्रत्यूषजलावगाहनेन निःशीलानां मोक्षो न भवति, आदिग्रहणात् हस्तपादादि प्रक्षालनं गृह्यते, तथाहि-उदकपरिभोगेन तदाश्रितजीवानामुपमईः समुपजायते, न च जीवोपमर्दान्मोक्षावाप्तिरिति, न चैकान्ते| नोदकं बाह्यमलस्याप्यपनयने समर्थम् , अथापि स्यात्तथाप्यान्तरं मलं न शोधयति, भावशुद्ध्या तच्छुद्धेः, अथ भावरहितस्यापि तच्छुद्धिः स्यात् ततो मत्स्यबन्धादीनामपि जलाभिषेकेण मुक्त्यवाप्तिः स्यात, तथा-क्षारस्य' पञ्चप्रकारस्थापि लवणस्य 'अनशनेन' अपरिभोगेन मोक्षो नास्ति, तथाहि-लवणपरिभोगरहितानां मोक्षो भवतीत्ययुक्तिकमेतत् न चायमेकान्तो लवणमेव रस-18||१५९॥ पुष्टिजनकमिति, क्षीरशर्करादिभिर्व्यभिचारात्, अपिचासौ प्रष्टव्यः-कि द्रव्यतो लवणवर्जनेन मोक्षावाप्तिः उत भावतः १, यदि | १०कादेरेवेति प्र० । २ पारिभाषिकलवणमात्रप्रतिपत्तिनिरासाय क्षारेति, अत एव पञ्चप्रकारस्यापीति वृत्तिः । ३ चणकादेरपि क्षारादिमत्त्वालवणेति । eeeeeeeeeeeeee 999099689990sase मास्ति, तथाहि-लवणपरिभोगरत्यवाप्तिः स्यात्, तथा क्षारस्य पञ्चाकादे, अथ भावरहितस्यापि Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.600218
Book TitleSutrakritangasutram
Original Sutra AuthorShilankacharya
Author
PublisherAgamoday Samiti
Publication Year1917
Total Pages856
LanguageSanskrit
ClassificationManuscript & agam_sutrakritang
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy