________________
'बालिशेन' अज्ञेन सदसद्विवेकस्यालम्भ इत्येतच्चावगम्य तथा निश्चयनयमवगम्य एकान्तदुःखोऽयं ज्वरित इव 'लोक' संसारिप्रा-11 |णिगणः, तथा चोक्तम्-"जम्मं दुक्खं जरा दुक्खं, रोगा य मरणाणि य । अहो दुक्खो हु संसारो, जत्थ कीसंति पाणिणो । ॥१॥" तथा-"तण्हाइयस्स पाणं कुरो छुहियस्स भुज्जए तित्ती । दुक्खसयसंपउत्तं जरियमिव जगं कलयलेइ ॥१॥" इति, अत्र चैवम्भूते लोके अनार्यकर्मकारी स्वकर्मणा 'विपर्यासमुपैति' सुखार्थी प्राण्युपमई कुर्वन् दुःखं प्राप्नोति, यदिवा मोक्षार्थी संसारं पर्यटतीति ॥ ११ ॥ उक्तः कुशीलविपाकोऽधुना तद्दर्शनान्यभिधीयन्ते-'इहे'ति मनुष्यलोके मोक्षगमनाधिकारे वा, एके | | केचन 'मूढा' अज्ञानाऽऽच्छादितमतयः परैश्च मोहिताः प्रकर्षेण वदन्ति प्रवदन्ति-प्रतिपादयन्ति, किं तत् ?-'मोक्षं मोक्षावाप्ति, केनेति दर्शयति-आहियत इत्याहार-ओदनादिस्तस्य सम्पद्-रसपुष्टिस्तां जनयतीत्याहारसम्पज्जननं-लवणं, तेन या-12 हारस्य रसपुष्टिः क्रियते, तस्य वर्जनं तेनाऽऽहारसम्पजननवर्जनेन-लवणवर्जनेन मोक्षं वदन्ति, पाठान्तरं वा 'आहारसपंचयवजणेण' आहारेण सह लवणपञ्चकमाहारसपञ्चक, लवणपश्चकं चेदं. तद्यथा-सैंधवं सौवचेलं बिडं रौमं सामुद्रं चेति, लवणेन हि सवेरसानामभिव्यक्तिर्भवति, तथा चोक्तम्-"लवणविहूणा य रसा चक्खुविहूणा य इंदियग्गामा । धम्मो दयाय रहिओ सोक्खं संतोसरहियं नो ॥१॥" तथा 'लवणं रसानां तैलं स्नेहानां घृतं मेध्याना'मिति, तदेवम्भूतलवणपरिवजेनेन रसपरि-18
१ कर्मोदयसंपादितसुखादिपरिणामानां तन्मते दुःखरूपलात् । २ जन्म दुःखं जरा दुःखं रोगाश्च मरणं च अहो दुःखः एव संसारः यत्र क्लिश्यन्ति जन्तवः ।। || ३ तृष्णार्दितस्य पानं कूरः क्षुधितस्य भुक्तौ तृप्तिः दुःखशतसम्प्रयुक्त ज्वरितमिव जगत्कलकलति ॥१॥ ४ लवणविहीनाथ रसाश्चक्षुर्विहीनाचेन्द्रियप्रामाः ।।
धर्मों दयया रहितः सौख्यं सन्तोषरहितं न ॥१॥
रिएeeeeeeeeeeeeeee
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org