________________
यते' भ्रियते पूर्यते यदिवा 'मी हिंसायां' मीयते हिंस्यते अथवा-बहुक्रूरकर्मेति चौरोऽयं पारदारिक इति वा इत्येवं तेनैव | कर्मणा मीयते-परिच्छिद्यत इति ॥३॥॥क पुनरसौ तैः कर्मभिर्मीयते इति दर्शयति-यान्याशुकारीणि कर्माणि तान्यसिन्नेव | जन्मनि विपाकं ददति, अथवा परसिन् जन्मनि नरकादौ तस्य कर्म विपाकं ददति, एकमिन्नेव जन्मनि विपाकं तीनं ददति 9 |'शताग्रशो वेति बहुषु जन्मसु, येनैव प्रकारेण तदशुभमाचरन्ति तथैवोदीयते तथा-'अन्यथा वेति, इदमुक्तं भवति|| किश्चित्कर्म तद्भव एव विपाकं ददाति किश्चिच्च जन्मान्तरे, यथा-मृगापुत्रस्य दुःखविपाकाख्ये विपाकश्रुताङ्गश्रुतस्कन्धे |
कथितमिति, दीर्घकालस्थितिकं खपरजन्मान्तरितं वेद्यते, येन प्रकारेण सकृत्तथैवानेकशो वा, यदिवाऽन्येन प्रकारेण सकृत्सहस्रशो |वा शिरश्छेदादिकं हस्तपादच्छेदादिकं चानुभूयत इति, तदेवं ते कुशीला आयतदण्डाश्चतुर्गतिकसंसारमापन्ना अरहट्टघटी| यत्रन्यायेन संसारं पर्यटन्तः 'परं परं' प्रकृष्टं प्रकृष्टं दुःखमनुभवन्ति, जन्मान्तरकृतं कर्मानुभवन्तश्चैकमार्तध्यानोपहता अपरं | बध्नन्ति वेदयन्ति च, दुष्टं नीतानि दुर्नीतानि-दुष्कृतानि, न हि स्वकृतस्य कर्मणो विनाशोऽस्तीतिभावा, तदुक्तम्-'मा होहि रे विसनो जीव ! तुम विमणदुम्मणो दीणो । णहु चिंतिएण फिट्टइ तं दुक्खं जं पुरा रइयं ॥१॥ जैइ पविससि पायालं अडविं व दरिं गुहं समुदं वा । पुवकयाउ न चुक्कसि अप्पाणं घायसे जइवि ॥२॥" ॥ ४ ॥ एवं तावदोघतः कुशीलाः प्रतिपादिताः, तदधुना पापण्डिकानधिकृत्याह
१मा भव रे विषण्णो जीव ! खं विमना दुर्मना दीनः । नैव चिन्तितेन स्फेटते तद्दुःखं यत्पुरा रचितं ॥१॥२ यदि प्रविशसि पाताल अटवीं वा दरी गुहां समुद्रं वा । पूर्वकृतान्नैव भ्रश्यसि आत्मानं घातयसि यद्यपि ॥१॥
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org