________________
नेन पुनर्जन्मानमिवात्मानमवैमीति, अतः सर्वदानानामभयप्रदानं श्रेष्ठमिति स्थितम् । तथा सत्येषु च वाक्येषु यद् 'अनवद्यम' | अपापं परपीडानुत्पादकं तत् श्रेष्ठं वदन्ति, न पुनः परपीडोत्पादकं सत्यं, सद्भ्यो हितं सत्यमितिकृता, तथा चोक्तम्-"लोकेऽपि
श्रूयते वादो, यथा सत्येन कौशिकः । पतितो वधयुक्तेन, नरके तीव्रवेदने ॥१॥" अन्यच्च-"तहेव काणं काणत्ति, पंडगं |पंडगति वा । वाहियं वावि रोगित्ति, तेणं चोरोत्ति नो वदे ॥१॥" तपस्सु मध्ये यथैवोत्तमं नवविधब्रह्मगुप्युपेतं ब्रह्मचर्य र प्रधानं भवति तथा सर्वलोकोत्तमरूपसम्पदा-सर्वातिशायिन्या शक्या क्षायिकज्ञानदर्शनाभ्यां शीलेन च 'ज्ञातपुत्रो भगवान् ।
श्रमणः प्रधान इति ॥ २३॥ किश्च-स्थितिमतां मध्ये यथा 'लवसत्तमाः' पञ्चानुत्तरविमानवासिनो देवाः सर्वोत्कृष्टस्थिति| वर्तिनः प्रधानाः, यदि किल तेषां सप्त लवा आयुष्कमभविष्यत्ततः सिद्धिगमनमभविष्यदित्यतोलवसत्तमास्तेऽभिधीयन्ते, 'सभानां च' पर्षदां च मध्ये यथा सौधर्माधिपपर्षच्छ्रेष्ठा बहुभिः क्रीडास्थानैरुपेतखात्तथा यथा सर्वेऽपि धर्मा 'निर्वाणश्रेष्ठाः' मोक्षप्रधाना भवन्ति, कुप्रावनिका अपि निर्वाणफलमेव खदर्शनं त्रुवते यतः, एवं 'ज्ञातपुत्रात् वीरवर्धमानखामिनः सर्वज्ञात् सकाशात् 'परं' प्रधानं अन्यद्विज्ञानं नास्ति, सर्वथैव भगवानपरज्ञानिम्योऽधिकज्ञानो भवतीति भावः ॥ २४ ॥ किश्चान्यत्
पुढोवमे धुणइ विगयगेही, न सण्णिहिं कुवति आसुपन्ने।। तरिउं समुदं व महाभवोघं, अभयंकरे वीर अणंतचक्खू ॥ २५ ॥
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org