SearchBrowseAboutContactDonate
Page Preview
Page 287
Loading...
Download File
Download File
Page Text
________________ eesereeeeeeeeeeeeeeeeeee वतो महावीर इति भण्यते, यदिवा-द्रव्यवीरो व्यतिरिक्त एकभविकादिः, क्षेत्रवीरो यत्र तिष्ठत्यसौ व्यावय॑ते वा, कालतोs| प्येवमेव, भाववीरो नोआगमतो वीरनामगोत्राणि कर्माण्यनुभवन् , स च वीरवर्धमानस्खाम्येवेति ॥ स्तवनिक्षेपार्थमाह थुइणिक्खेवो चउहा आगंतुअभूसणेहिं दव्वथुती। भावे संताण गुणाण कित्तणा जे जहिं भणिया ॥ ८४॥ _ 'स्तुते' स्तवस्य नामादिश्चतुर्धा निक्षेपः, तत्र नामस्थापने पूर्ववत् , द्रव्यस्तवस्तु ज्ञशरीरभव्यशरीरव्यतिरिक्तो यः कटककेयूर| सकचन्दनादिभिः सचित्ताचित्तद्रव्यैः क्रियत इति, भावस्तवस्तु 'सद्भूतानां विद्यमानानां गुणानां ये यत्र भवन्ति तत्कीर्तनमिरूति ॥ साम्प्रतं आद्यसूत्रसंस्पर्शद्वारेण सकलाध्ययनसम्बन्धप्रतिपादिकां गाथां नियुक्तिकृदाह| पुच्छिंसु जंबुणामो अज सुहम्मा तओ कहेसी य । एव महप्पा वीरो जयमाह तहा जएजाहि ॥ ८५॥ जम्बूस्वामी आर्यसुधर्मवामिनं श्रीमन्महावीरवर्धमानस्वामिगुणान् पृष्टवान् , अतोऽसावपि भगवान् सुधर्मखाम्येवंगुणविशिष्टो| महावीर इति कथितवान् , एवं चासौ भगवान् संसारस्य 'जयम्' अभिभवमाह, ततो यूयमपि यथा भगवान् संसारं जितवान् । | तथैव यत्नं विधत्तेति ॥ साम्प्रतं निक्षेपानन्तरं सूत्रानुगमेऽस्खलितादिगुणोपेतं सूत्रमुच्चारयितव्यं, तच्चेदम् - पुच्छिस्सु णं समणा माहणा य, अगारिणो या परतित्थिआ य। से केइ णेगंतहियं धम्ममाहु, अणेलिसं साहू समिक्खयाए ॥१॥ कहं च णाणं कह दंसणं से, सीलं कहं नायसुतस्स आसी ? । SO90020999999999994 Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.600218
Book TitleSutrakritangasutram
Original Sutra AuthorShilankacharya
Author
PublisherAgamoday Samiti
Publication Year1917
Total Pages856
LanguageSanskrit
ClassificationManuscript & agam_sutrakritang
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy