________________
अथ श्रीवीरस्तुत्याख्यं षष्ठमध्ययनं प्रारभ्यते ॥
उक्तं पञ्चममध्ययनं, साम्प्रतं षष्ठमारभ्यते, अस्स चायमभिसम्बन्धः-अत्रानन्तराध्ययने नरकविभक्तिः प्रतिपादिता, सा, च श्रीमन्महावीरवर्धमानस्वामिनाभिहितेत्यतस्तस्यैवानेन गुणकीर्तनद्वारेण चरितं प्रतिपाद्यते शास्तुर्गुरुखेन शास्त्रस्य गरीयस्वमितिकृखा, इत्यनेन सम्बन्धेनाऽऽयातस्यास्याध्ययनस्योपक्रमादीनि चत्वार्यनुयोगद्वाराणि, तत्राप्युपक्रमान्तर्गतोऽर्थाधिकारो महा-18 | वीरगुणगणोत्कीर्तनरूपः । निक्षेपस्तु द्विधा ओघनिष्पन्नो नामनिष्पन्नश्च, तत्रौघनिष्पन्ने निक्षेपेऽध्ययनं, नामनिष्पन्ने तु महावीर| स्तवः, तत्र महच्छब्दस्य वीर इत्येतस्य च स्तवस्य च प्रत्येकं निक्षेपो विधेयः, तत्रापि 'यथोद्देशस्तथा निर्देश' इतिकृखा पूर्व महच्छब्दो निरूप्यते, तत्रास्त्ययं महच्छब्दो बहुखे, यथा-महाजन इति, अस्ति बृहत्त्वे, यथा-महाघोषः, अस्त्यत्यर्थे, यथा-महाभयमिति, अस्ति प्राधान्ये, यथा महापुरुष इति, तत्रेह प्राधान्ये वर्तमानो गृहीत इत्येतन्नियुक्तिकारो दर्शयितुमाह
पाहन्ने महसदो दवे खेत्ते य कालभावे य । वीरस्स उणिक्खेवो चउक्तओ होइ णायव्वो॥ ८३॥
तत्र महावीरस्तव इत्यत्र यो महच्छब्दः स प्राधान्ये वर्तमानो गृहीतः, तेच नामस्थापनाद्रव्यक्षेत्रकालभावभेदात् पोढा प्राधान्यं, नामस्थापने क्षुण्णे, द्रव्यप्राधान्यं ज्ञशरीरभव्यशरीरव्यतिरिक्तं सचित्ताचित्तमिश्रभेदात् त्रिधा, सचित्तमपि द्विपदचतुष्पदा१ पर्यायलात्तत्त्वतस्तस्यैवामिधानं यथा भाषाभिधानं वाक्यशुद्धौ वाक्यनिक्षेपे ।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org