________________
सूत्रकृताङ्गं शीलाङ्काचार्यांयत्तियुतं
॥११७॥
eeeeeeeeeeeeeeeee
आनयेति, तथाऽऽतपस्य वृष्टेवा संरक्षणाय छत्रं तथा उपानहौ च ममानुजानीहि, न मे शरीरमेभिर्विना वर्तते ततो ददखेति, ४ स्त्रीपतथा 'शस्त्रं' दात्रादिकं 'सूपच्छेदनाय' पत्रशाकच्छेदनार्थ ढौकयख, तथा 'वस्त्रम्' अम्बरं परिधानार्थं गुलिकादिना रञ्जय ||8| रिज्ञाध्य. यथा आनीलम्-ईपन्नीलं सामस्त्येन वा नीलं भवति, उपलक्षणार्थखाद्रक्तं वा यथा भवतीति ॥९॥ तथा-सुष्टु सुखेन वा| उद्देशः २ | फण्यते-काथ्यते तक्रादिकं यत्र तत्सुफणि-स्थालीपिठरादिकं भाजनमभिधीयते तच्छाकपाकार्थमानय, तथा 'आमलकानि' धात्रीफलानि स्नानार्थ पित्तोपशमनायाभ्यवहारार्थ वा तथोदकमाहियते येन तदुदकाहरणं-कुटवर्धनिकादि, अस्य चोपलक्षणार्थवाद् घृततैलाद्याहरणं सर्व वा गृहोपस्करं ढौकयस्खेति, तिलकः क्रियते यया सा तिलककरणी-दन्तमयी सुवर्णात्मिका वा शलाका यया गोरोचनादियुक्तया तिलकः क्रियत इति, यदिवा गोरोचनया तिलकः क्रियते (इति) सैव तिलककरणीत्युच्यते, तिलका वा क्रियन्ते-पिष्यन्ते वा यत्र सा तिलककरणीत्युच्यते, तथा अञ्जनं-सौवीरकादि शलाका-अक्ष्णोरञ्जनार्थ शलाका अञ्जनशलाका तामाहरेति । तथा 'ग्रीष्मे' उष्णाभितापे सति 'मे' मम विधूनकं' व्यजनकं विजानीहि ॥ १० ॥ एवंसंडासगं च फणिहं च,सीहलिपासगंच आणाहि।आदंसगं च पयच्छाहि, दंतपक्खालणं पवेसाहि ॥११॥
पूयफलं तंबोलयं, सूईसुत्तगं च जाणाहि। कोसं च मोयमेहाए, सुप्पुक्खलगं च खारगालणं च ॥१२॥ ॥११७॥ OM 'संडासकं नासिकाकेशोत्पाटनं 'फणिहं' केशसंयमनार्थ कङ्कतकं, तथा 'सीहलिपासगं'ति वीणासंयमनार्थमू ङ्कणं च 'आनय' ढौकयेति, एवम् आ-समन्तादृश्यते आत्मा यसिन् स आदर्शः स एव आदर्शकस्तं 'प्रयच्छ' ददखेति, तथा
Jain Educativa
For Personal & Private Use Only
www.jainelibrary.org