________________
नपुंसगो'त्ति । प्रजन्यतेऽपत्यं येन तत्प्रजननं शिश्नम्-लिङ्गम् तत्प्रधानः पुरुषः अपरपुरुषकार्यरहितखात्.प्रजननपुरुषः, कर्मअनुष्ठानं तत्प्रधानः पुरुषः कर्मपुरुषः-कर्मकरादिकः, तथा भोगप्रधानः पुरुषो भोगपुरुषः-चक्रवादिः-तथा गुणाःव्यायामविक्रमधैर्यसत्त्वादिकास्तत्प्रधानः पुरुषो गुणपुरुषः, भावपुरुषस्तु पुवेदोदये वर्तमानस्तद्वेद्यानि कर्माण्यनुभवन्निति, एते है। दश पुरुषनिक्षेपा भवन्ति । साम्प्रतं प्रागुल्लिङ्गितमुद्देशार्थाधिकारमधिकृत्याह
पढमे संथवसंलवमाइहि खलणा उ होति सीलस्स । वितिए इहेव खलियस अवस्था कम्मबंधो य ॥१८॥ प्रथमे उद्देशके अयमर्थाधिकारः, तद्यथा-स्त्रीभिः सार्धं 'संस्तवेन' परिचयेन तथा 'संलापेन' भिन्नकथाद्यालापेन, आदिग्रहणादङ्गप्रत्यङ्गनिरीक्षणादिना कामोत्कोचकारिणा भवेदल्पसत्त्वस्य 'शीलस्य चारित्रस्य स्खलना तुशब्दात्तत्परित्यागो वेति, | द्वितीये खयमर्थाधिकारः, तद्यथा-शीलस्खलितस्य साधोः 'इहैव' असिन्नेव जन्मनि स्वपक्षपरपक्षकृता तिरस्कारादिका विड-18 म्बना तत्प्रत्ययश्च कर्मबन्धः, ततश्च संसारसागरपर्यटनमिति, किं स्त्रीमिः कश्चित् शीलात् प्रच्याव्यात्मवशः कृतो येनैवमुच्यते ?, कृत इति दर्शयितुमाह
सूरा मो मन्नता कइतवियाहिं उवहिप्पहाणाहिं । गहिया ह अभयपज्जोयकूलवालादिणो बहवे ॥ ५९॥
बहवः पुरुषा अभयप्रद्योतकूलवालादयः शूरा वयमित्येवं मन्यमानाः, मो इति निपातो वाक्यालङ्कारार्थः, 'कृत्रिमाभिः४ || सद्भावरहिताभिः स्त्रीभिस्तथा उपधिः-माया तत्प्रधानाभिः कृतकपटशताभिः 'गृहीता' आत्मवशता नीताः केचन राज्यादपरे |8||
eeeeeeeeeeeeeeeeeeeeeeee
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org