________________
वीरिप्रभृतीनामिव सिद्धि, विपदिने दृष्टान्तमाह-बहनं वाहव तेऽपि प्रोश्य संयमभारं शीतलपटतः पश्चात्प
तत्थ मंदा विसीअंति, वाहच्छिन्ना व गद्दभा । पिट्टतो परिसप्पंति, पिट्ठसप्पी य संभमे ॥ ५॥ || इहमेगे उ भासंति, सातं सातेण विज्जती । जे तत्थ आरियं मग्गं, परमं च समाहिए(यं)॥६॥६|| 'तत्र' तस्मिन् कुश्रुत्युपसर्गोदये 'मन्दा' अज्ञा नानाविधोपायसाध्यं सिद्धिगमनमवधार्य विषीदन्ति संयमानुष्ठाने, न पुनरेतद्विदन्त्यज्ञाः, तद्यथा-येषां सिद्धिगमनमभूत् तेषां कुतश्चिनिमित्तात् जातजातिसरणादिप्रत्ययानामवाप्तसम्यग्ज्ञानचारित्राणा| मेव वल्कलचीरिप्रभृतीनामिव सिद्धिगमनमभूत , न पुनः कदाचिदपि सर्वविरतिपरिणामभावलिङ्गमन्तरेण शीतोदकबीजाद्युपभो
गेन जीवोपमर्दप्रायेण कर्मक्षयोऽवाप्यते, विषीदने दृष्टान्तमाह-वहनं वाहो-भारोद्वहनं तेन छिन्ना:-कर्षितामुटिता रासभा | इव विषीदन्ति, यथा-रासभा गमनपथ एव प्रोज्झितभारा निपतन्ति, एवं तेऽपि प्रोग्य संयमभार शीतलविहारिणो भवन्ति, दृष्टान्तान्तरमाह-यथा 'पृष्ठसर्पिणो' भग्नगतयोग्यादिसम्भ्रमे सत्युभ्रान्तनयनाः समाकुलाः प्रनष्टजनस्य 'पृष्ठतः' पश्चात्प | रिसर्पन्ति नाग्रगामिनो भवन्ति, अपि तु तत्रैवान्यादिसम्भ्रमे विनश्यन्ति, एवं तेऽपि शीतलविहारिणो मोक्षं प्रति प्रवृत्ता अपि तु न मोक्षगतयो भवन्ति अपि तु तसिन्नेव संसारे अनन्तमपि कालं यावदासत इति ॥५॥ मतान्तरं निराकर्तुं पूर्वपक्षयितुमाह'इहे'ति मोक्षगमनविचारप्रस्तावे 'एके' शाक्यादयः खयथ्या वा लोचादिनोपतप्ताः, तुशब्दः पूर्वस्मात् शीतोदकादिपरिभोगाद्विशेषमाह, 'भाषन्ते' ब्रुवते मन्यन्ते वा कचित्पाठः, किं तदित्याह-'सात' सुखं 'सातेन' सुखेनैव 'विद्यते' भवतीति, तथा च वक्तारो भवन्ति-"सर्वाणि सत्त्वानि सुखे रतानि, सर्वाणि दुःखाच समुद्विजन्ते । तस्मात्सुखार्थी सुखमेव दद्यात्, सु
For Personal & Private Use Only
www.jainelibrary.org