________________
"उपशमफलाद्विद्याबीजात्फलं धनमिच्छता, भवति विफलो यद्यायासस्तदत्र किमद्धतम् । न नियतफलाः कर्तुर्भावाः फलान्त| रमीशते, जनयति खलु बीहे/जं न जातु यवाङ्कुरम् ॥१॥ इति "॥४॥ उपसंहारार्थमाह
इच्चेव पडिलेहंति, वलया पडिलेहिणो । वितिगिच्छसमावन्ना, पंथाणं च अकोविया ॥५॥ जे उ संगामकालंमि, नाया सूरपुरंगमा । णो ते पिटुमुवेहिति, किं परं मरणं सिया ? ॥६॥ 'इत्येवमिति पूर्वप्रक्रान्तपरामर्शार्थः, यथा भीरवः सङ्ग्रामे प्रविविक्षवो वलयादिकं प्रति उपेक्षिणो भवन्तीति, एवं प्रव्रजिता | मन्दभाग्यतया अल्पसवा आजीविकामयाब्याकरणादिकं जीवनोपायखेन 'प्रत्युपेक्षन्ते' परिकल्पयन्ति, किम्भूताः-विचिकि
त्सा-चित्तविप्लुतिः-किमेनं संयमभारमुत्क्षिप्तमन्तं नेतुं वयं समर्थाः उत नेतीत्येवम्भूता, तथा चोक्तम्- "लुक्खमणुण्हमणिययं | कालाइकंतभोयणं विरसं । भूमीसयणं लोओ असिणाणं बंभचेरं च ॥१॥" तां समापन्नाः-समागताः, यथा पन्थानं प्रति | | 'अकोविदा' अनिपुणाः, किमयं पन्था विवक्षितं भूभागं यास्यत्युत नेतीत्येवं कृतचित्तविप्लतयो भवन्ति, तथा तेऽपि संयम-16 भारवहनं प्रति विचिकित्सां समापन्ना निमित्तगणितादिकं जीविकार्थ प्रत्युपेक्षन्त इति ॥५॥ साम्प्रतं महापुरुषचेष्टिते दृष्टान्तमाह—ये पुनर्महासत्त्वाः, तुशब्दो विशेषणार्थः 'सङ्क्रामकाले' परानीकयुद्धावसरे 'ज्ञाता' लोकविदिताः, कथम् ?–'शूरपुरङ्गमाः शूराणामग्रगामिनो युद्धावसरे सैन्याग्रस्कन्धवर्तिन इति, त एवम्भूताः सङ्ग्रामं प्रविशन्तो 'न पृष्ठमुत्प्रेक्षन्ते' न दुर्गा| १ कर्तुं भा० प्र० । २ रूक्षमनुष्णमनियतं कालातिकान्तं भोजनं विरसम् । भूमिशयनं लोचोऽस्नानं ब्रह्मचर्य च ॥१॥
Restaelaeeeeeeeeeeeeeeeeo
Jain Education
anal
For Personal & Private Use Only
www.jainelibrary.org