SearchBrowseAboutContactDonate
Page Preview
Page 169
Loading...
Download File
Download File
Page Text
________________ यिषिताः, ते चानुकूलाः प्रतिकूलाच, तत्र प्रथमोद्देशके प्रतिकूलाः प्रतिपादिताः, इह खनुकूलाः प्रतिपाद्यन्त इत्यनेन सम्बन्धेनायातस्यास्योद्देशकस्याऽऽदिसूत्रम्__ अहिमे सुहमा संगा, भिक्खुणं जे दुरुत्तरा । जत्थ एगे विसीयंति, ण चयंति जवित्तए ॥१॥ अप्पेगे नायओ दिस्स, रोयंति परिवारिया। पोसणे ताय ! पुट्ठोऽसि, कस्स ताय! जहासिणे ? ॥२॥६|| 'अथ' इति आनन्तर्ये, प्रतिकूलोपसर्गानन्तरमनुकूलाः प्रतिपाद्यन्त इत्यानन्तर्यार्थः, ते 'इमें अनन्तरमेवाभिधीयमानाः प्रत्य| क्षासन्नवाचिखादिदमाऽभिधीयन्ते, ते च 'सूक्ष्माः प्रायश्चेतोविकारकारिखेनान्तराः, न प्रतिकूलोपसर्गा इव बाहुल्येन शरीरविका-18 रकारिखेन प्रकटतया बादरा इति, 'सङ्गा' मातापित्रादिसम्बन्धाः य एते 'भिक्षूणां' साधूनामपि 'दुरुत्तरा' दुर्लङ्घया-दुर-18 तिक्रमणीया इति, प्रायो जीवितविघ्नकरैरपि प्रतिकूलोपसर्गेरुदीर्णैर्माध्यस्थ्यमवलम्बयितुं महापुरुषैः शक्यम्, एते खनुकूलोपस| र्गास्तानप्युपायेन धर्माच्यावयन्ति, ततोऽमी दुरुत्तरा इति, 'यत्र' येषूपसर्गेषु सत्सु 'एके' अल्पसवाः सदनुष्ठानं प्रति 'विषीदन्ति' शीतलविहारिवं भजन्ते सर्वथा वा-संयमं त्यजन्ति, नैवात्मानं संयमानुष्ठानेन 'यापयितुं'–वर्तयितुं तस्मिन् वा || व्यवस्थापयितुं शक्नुवन्ति' समर्था भवन्तीति ॥१॥ तानेव सूक्ष्मसङ्गान् दर्शयितुमाह-'अपि: संभावने 'एके' तथाविधा 'ज्ञातयः' खजना मातापित्रादयः प्रव्रजन्तं प्रबजितं वा 'दृष्टा' उपलभ्य 'परिवार्य' वेष्टयिखा रुदन्ति रुदन्तो वदन्ति च | Raeeeeeeeeeeeeeeeeee १ यतः प्र० dain Education International For Personal & Private Use Only www.janelibrary.org
SR No.600218
Book TitleSutrakritangasutram
Original Sutra AuthorShilankacharya
Author
PublisherAgamoday Samiti
Publication Year1917
Total Pages856
LanguageSanskrit
ClassificationManuscript & agam_sutrakritang
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy