SearchBrowseAboutContactDonate
Page Preview
Page 165
Loading...
Download File
Download File
Page Text
________________ र्थका अधमाः-मलाविलखात् जुगुप्सिता 'मुण्डा' लुश्चितशिरसः, तथा-कचित्कण्डकृतक्षतै रेखामिळ विनष्टाङ्गाविकृतशरीराः, अप्रतिकर्मशरीरतया वा क्वचिद्रोगसम्भवे सनत्कुमारवद्विनष्टाङ्गः, तथोद्गतो जल्ल:-शुष्कप्रखेदो येषां ते उजल्लाः, तथा 'असमाहिता' अशोभना बीभत्सा दुष्टा वा प्राणिनामसमाधिमुत्पादयन्तीति ॥ १० ॥ साम्प्रतमेतद्भाषकाणां विपाकदर्शनायाह__एवं विप्पडिवन्नेगे, अप्पणा उ अजाणया। तमाओ ते तमं जंति, मंदा मोहेण पाउडा ॥ ११ ॥ पुट्ठो य दंसमसएहिं, तणफासमचाइया । न मे दिट्टे परे लोए, जइ परं मरणं सिया ॥ १२॥ 'एवम्' अनन्तरोक्तनीत्या 'एके' अपुण्यकर्माणो 'विप्रतिपन्ना:' साधुसन्मार्गद्वेषिणः 'आत्मना' स्वयमज्ञाः, तुशब्दादन्येषां च विवेकिनां वचनमकुर्वाणाः सन्तस्ते 'तमसः' अज्ञानरूपादुत्कृष्टं तमो 'यान्ति' गच्छन्ति, यदिवा-अधस्तादप्यधस्तनी गतिं गच्छन्ति, यतो 'मन्दा' ज्ञानावरणीये नावष्टब्धाः तथा 'मोहेन' मिथ्यादर्शनरूपेण 'प्रावृता' आच्छादिताः सन्तः खिडप्रायाः साधुविद्वेषितया कुमार्गगा भवन्ति, तथा चोक्तम्-"एक हि चक्षुरमलं सहजो विवेकस्तद्वद्भिरेव सह संवसतिईि-18 तीयम् । एतद् द्वयं भुवि न यस्य स तत्त्वतोऽधस्तस्यापमार्गचलने खलु कोऽपराधः॥१॥"॥११॥ दंशमशकपरीषहमधिकृत्याह-कचित्सिन्धुताम्रलिप्स कोङ्कणादिके देशे अधिका दंशमशका भवन्ति तत्र च कदाचित्साधुः पर्यटस्तैः स्पृष्टश्च' भक्षितः तथा निष्किञ्चनखात् तृणेषु शयानस्तत्स्पर्श सोढुमशनुवन आर्त्तः सन् एवं कदाचिचिन्तयेत् , तद्यथा-परलोकार्थमेतदुष्करमनुष्ठानं cिeaeseeeeeeeeeeeeesea Jain Education intento For Personal & Private Use Only www.jainelibrary.org
SR No.600218
Book TitleSutrakritangasutram
Original Sutra AuthorShilankacharya
Author
PublisherAgamoday Samiti
Publication Year1917
Total Pages856
LanguageSanskrit
ClassificationManuscript & agam_sutrakritang
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy