________________
प्रथमे उद्देशके 'प्रतिलोमाः प्रतिकूला उपसर्गाः प्रतिपाद्यन्त इति, तथा द्वितीये 'ज्ञातिकृताः स्वजनापादिता अनुलोमा-अनुकूला इति, तथा तृतीये अध्यात्मविषीदनं परवादिवचनं चेत्ययमर्थाधिकार इति, चतुर्थोद्देशके अयमर्थाधिकारः, तद्यथा-'हेतुसदृशैः' हेखाभासैर्येऽन्यतैर्थिकैयुद्राहिताः-प्रतारितास्तेषां शीलस्खलितानां-व्यामोहितानां प्रज्ञापना-यथावस्थितार्थप्ररूपणा स्वसमयप्रतीतैनिपुणभणितैर्हेतुभिः कृतेति ॥ साम्प्रतं सूत्रानुगमेऽस्खलितादिगुणोपेतं मूत्रमुचारणीयं, तचेदम्
सूरं मण्णइ अप्पाणं, जाव जेयं न पस्सती । जुझंतं दढधम्माणं, सिसुपालो व महारहं॥१॥ पयाता सूरा रणसीसे, संगामंमि उवट्ठिते । माया पुत्तं न याणाइ, जेएण परिविच्छए ॥२॥ कश्चिल्लघुप्रकृतिः सङ्ग्रामे समुपस्थिते शूरमात्मानं मन्यते-निस्तोयाम्बुद इवात्मश्लाघाप्रवणो वाग्भिर्विस्फूर्जन् गर्जति, तद्यथान मत्कल्पः परानीके कश्चित् सुभटोऽस्तीति, एवं तावद्गर्जति यावत् पुरोऽवस्थितं प्रोद्यतासिं जेतारं न पश्यति, तथा चोक्तम्"तावद्गजः प्रसुतदानगण्डः, करोत्यकालाम्बुदगर्जितानि । यावन सिंहस्य गुहास्थलीषु, लाङ्गलविस्फोटरवं शृणोति ॥१॥" | दृष्टान्तमन्तरेण प्रायो लोकस्यार्थावगमो भवतीत्यतस्तदवगतये दृष्टान्तमाह-यथा माद्रीसुतः शिशुपालो वासुदेवदर्शनास्पाक
आत्मश्लाघाप्रधानं गर्जितवान् , पश्चाच्च युध्यमानं-शस्त्राणि व्यापारयन्तं दृढः-समर्थों धर्म:-स्वभावः सङ्ग्रामाभङ्गरूपो यस से | तथा तं, महान् रथोऽस्खेति महारथः, स च प्रक्रमादत्र नारायणस्तं युध्यमानं दृष्ट्वा प्राग्गर्जनाप्रधानोऽपि क्षोभं गतः, एवमल
Jain Education International
For Personal & Private Use Only
www.janelibrary.org