________________
व्यवस्थिताः, तथा तेनैव कर्मणैकेन्द्रियाद्यवस्थायाम् 'अव्यक्तेन' अपरिस्फुटेन शिरःशूलाद्यलक्षितस्वभावेनोपलक्षणार्थखात् प्रव्यतेन च 'दुःखेन' असातावेदनीयस्वभावेन समन्विताः प्राणिनः पर्यटन्ति-अरघट्टघटीयत्रन्यायेन तास्वेव योनिषु भयाकुलाः शठ-18 कर्मकारिखात् शठा भ्रमन्ति जातिजरामरणैरभिद्रुता-गर्भाधानादिभिदुःखैः पीडिता इति ॥ १८ ॥ किञ्चइणमेव खणं वियाणिया,णो सुलभं बोहिं च आहितं । एवं सहिएऽहिपासए,आह जिणे इणमेव सेसगा१९
अभविंसु पुरावि भिक्खुवो,आएसावि भवंति सुव्वता। एयाइं गुणाई आहुते,कासवस्स अणुधम्मचारिणो॥ ___ इदमः प्रत्यक्षासन्नवाचिसात इम-द्रव्यक्षेत्रकालभावलक्षणं 'क्षणम्' अवसरं ज्ञाखा तदुचितं विधेयं, तथाहि-द्रव्यं जङ्गमत्वपश्चेन्द्रियत्नसुकुलोत्पत्तिमानुष्यलक्षणं क्षेत्रमप्यार्यदेशाधषड्विंशतिजनपदलक्षणं कालोऽप्यवसर्पिणीचतुर्थारकादिः धर्मप्रतिपत्तियोग्यलक्षणः भावश्च धर्मश्रवणतच्छ्रद्धानचारित्रावरणकर्मक्षयोपशमाहितविरतिप्रतिपयुत्साहलक्षणः, तदेवंविधं क्षणम्अवसरं परिज्ञाय तथा 'बोधि च' सम्यग्दर्शनावाप्तिलक्षणां नो सुलभामिति, एवमाख्यातमवगम्य तदवाप्तौ तदनुरूपमेव कुर्यादिति शेषः, अकृतधर्माणां च पुनर्दुर्लभा बोधिः, तथाहि-"लद्धेल्लियं च बोहिं अकरेंतो अणागयं च पत्थेतो । अन्नं दाई बोहिं लब्भिसि कयरेण मोल्लेणं ? ॥१॥" तदेवमुत्कृष्टतोऽपार्द्धपुद्गलपरावर्तप्रमाणकालेन पुनः सुदुर्लभा बोधिरित्येवं सहितो ज्ञानादिभिरधिपश्यत्-बोधिसुदुर्लभत्वं पर्यालोचयेत् , पाठान्तरं वा 'अहियासए'त्ति परीषहानुदीर्णान् सम्यगधिसहेत । एतच्चाऽऽह
१०ख्याता० प्र० २ लब्धां च बोधिमकुर्वन् अनागतां च प्रार्थयमानः । अन्यां (तदा) बोधि लप्स्य से कतरेण मूल्येन ? ॥१॥
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org