________________
इह खलु गाहावइस्स अप्पणो सयट्ठाए विरूवरूवाई दारुयाई भिन्नपुव्वाई भवंति, अह पच्छा भिक्खुपडियाए विरूवरूवाई दारुयाई मंदिज्ज वा किणिज्ज वा पामिच्चेज्ज वा दारुणा वा दारुपरिणामं कट्टु अगणिकायं उ० प०, तत्थ भिक्खू अभिकंखिज्जा आयावित्तए वा पयावित्तए वा वियट्टित्तए वा, अह भिक्खू० जं नो तहृपगारे० || (सू० ७४ ) कर्मोपादानमेतद्भिक्षोर्यद्गृहस्थावबद्धे प्रतिश्रये स्थानमिति, तद्यथा - ' गाहावइस्स अप्पणो त्ति, तृतीयार्थे षष्ठी, गृहपतिना आत्मना स्वार्थ 'विरूपरूपः ' नानाप्रकार आहारः संस्कृतः स्यात्, 'अथ' अनन्तरं पश्चात्साधूनुद्दिश्याशनादिपाकं वा कुर्यात्, तदुपकरणादि वा ढौकयेत् तं च तथाभूतमाहारं साधुर्भोक्तुं पातुं वाऽभिकाङ्गेत्, 'विअट्टित्तए व'त्ति तत्रैवाहारगृद्ध्या विवर्त्तितुम् - आसितुमाकाङ्गेत् शेषं पूर्ववदिति ॥ एवं काष्ठाग्निप्रज्वालनसूत्रमपि नेयमिति ॥ किञ्च
से भिक्खू वा० उच्चारपासवणेण उव्वाहिज्जमाणे राओ वा वियाले वा गाहावईकुलस्स दुवारबाहं अवंगुणिज्जा, तेणे य तस्संधिचारी अणुपविसिज्जा, तस्स भिक्खुस्स नो कप्पड़ एवं वइत्तए — अयं तेणो पविसइ वा नो वा पविसइ उवल्लिय वा नो वा० आवयइ वा नो वा० वयइ वा नो वा० तेण हडं अनेण हडं तस्स हड अन्नरस हुडं अयं तेणे अयं उवच
रए अयं हंता अयं इत्थमकासी तं तवरिंस भिक्खु अतेणं तेणंति संकइ, अह भिक्खूणं पु० जाव नो ठा० ॥ ( सू० ७५ ) स भिक्षुस्तत्र गृहस्थसंसक्ते प्रतिश्रये वसन्नुच्चारादिना बाध्यमानो विकालादौ प्रतिश्रयद्वारभागमुद्घाटयेत्, तत्र च 'स्तेनः ' चौरः ' तत्सन्धिचारी' छिद्रान्वेषी अनुप्रविशेत्, तं च दृष्ट्वा तस्य भिक्षोनैवं वक्तुं कल्पते - यथाऽयं चौरः प्रविशति न वेति, तथोपलीयते न वेति, तथाऽयमतिपतति न वेति, तथा वदति वा न वदति वा, तेनामुकेनापहृतम् अन्येन वा,
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org