SearchBrowseAboutContactDonate
Page Preview
Page 96
Loading...
Download File
Download File
Page Text
________________ श्रीआचाराङ्गवृत्तिः (शी०) ॥३६४॥ श्रुतस्कं०२ चूलिका १ शय्यैष०२ उद्देशः २ गाहावई नामेगे सुइसमायारा भवंति, से भिक्खू य असिणाणए मोयसमायारे से तग्गंधे दुग्गंधे पडिकूले पडिलोमे यावि भवइ, जं पुव्वं कम्मं तं पच्छा कम्मं जं पच्छा कम्मं तं पुरे कम्म, तं मिक्खुपडियाए वट्टमाणा करिज्जा वा नो करिज्जा वा, अह भिक्खूणं पु० जं तहप्पगारे उ० नो ठाणं० ॥ (सू० ७२) 'एके' केचन गृहपतयः शुचिः समाचारो येषां ते तथा, ते च भागवतादिभक्ता भवन्ति भोगिनो वा-चन्दनागुरुकुङ्कमकर्पूरादिसेविनः, भिक्षुश्चास्नानतया तथाकार्यवशात् 'मोयात्ति कायिका तत्समाचरणात्स भिक्षुस्तद्गन्धो भवति, तथा च दुर्गन्धः, एवंभूतश्च तेषां गृहस्थानां 'प्रतिकूलः' नानुकूलोऽनभिमतः, तथा 'प्रतिलोमः' तद्गन्धाद्विपरीतगन्धो भवति, एकार्थिको वैतावतिशयानभिमतत्वख्यापनार्थावुपात्ताविति, तथा ते गृहस्थाः साधुप्रतिज्ञया यत्तत्र भोजनस्वाध्यायभूमौ स्नानादिकं पूर्व कृतवन्तस्तत्तेषामुपरोधात्पश्चात्कुर्वन्ति यद्वा पश्चात्कृतवन्तस्तत्पूर्व कुर्वन्ति, एवमवसर्पणोत्सर्पणक्रियया साधूनामधिकरणसम्भवः, यदिवा ते गृहस्थाः साधूपरोधात्प्राप्तकालमपि भोजनादिकं न कुर्युः, ततश्चान्तरायमनःपीडादिदोषसम्भवः, अथवा त एव साधवो गृहस्थोपरोधाद्यत्पूर्व कर्म-प्रत्युपेक्षणादिकं तत्पश्चात्कुयुर्विपरीतं वा कालातिक्रमेण कुर्युन कुर्युर्वा, अथ भिक्षूणां पूर्वोपदिष्टमेतत्प्रतिज्ञादिकं यत्तथाविधे प्रतिश्रये स्थानादिकं न कार्यमिति ॥ किञ्च आयाणमेयं भिक्खुस्स गाहावईहिं सद्धिं सं०, इह खलु गाहावइस्स अप्पणो सयट्ठाए विरूवरूवे भोयणजाए उवक्खडिए सिया, अह पच्छा मिक्खुपडियाए असणं वा ४ उवक्खडिज वा उवकरिज वा, तं च मिक्खू अभिकंखिजा भुत्तए वा पायए वा वियट्टित्तए वा, अह भि० जं नो तह ॥ (सू०७३ ) आयाणमेयं भिक्खुस्स गाहावइणा सद्धिं संव० ॥३६४॥ Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.600217
Book TitleAcharangsutram Part 02
Original Sutra AuthorShilankacharya
Author
PublisherAgamoday Samiti
Publication Year1916
Total Pages232
LanguageSanskrit
ClassificationManuscript & agam_acharang
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy