SearchBrowseAboutContactDonate
Page Preview
Page 87
Loading...
Download File
Download File
Page Text
________________ 'यदा' यस्मिन् काले वर्तते सा तस्य षड्भावरूपा भावशय्या, शयनं शय्या स्थितिरितिकृत्वा, तथा ख्यादिकायगतो गर्भत्वेन स्थितो यो जीवस्तस्य ख्यादिकाय एव भावशय्या, यतः स्यादिकाये सुखिते दुःखिते सुप्ते उत्थिते वा तादृगवस्थ एव तदन्तर्वर्ती जीवो भवति, अतः कायविषया भावशय्या द्वितीयेति ॥ अध्ययनार्थाधिकारः सर्वोऽपि शय्याविषयः, , उद्देशार्थाधिकारप्रतिपादनाय नियुक्तिकृदाह| सब्वेवि य सिजविसोहिकारगा तहवि अस्थि उ विसेसो । उद्देसे उद्देसे वुच्छामि समासओ किंचि ॥३०॥ 'सर्वेऽपि त्रयोऽप्युद्देशका यद्यपि शय्याविशुद्धिकारकास्तथाऽपि प्रत्येकमस्ति विशेषस्तमहं लेशतो वक्ष्य इति ॥ एतदेवाहउग्गमदोसा पढमिल्लयंमि संसत्तपच्चवाया य१।बीयंमि सोअवाई बहुविहसिज्जाविवेगो २ य ॥ ३०३ ॥ तत्र प्रथमोद्देशके वसतेरुद्गमदोषाः-आधाकर्मादयस्तथा गृहस्थादिसंसक्तप्रत्यपायश्च चिन्त्यन्ते ?, तथा द्वितीयोद्देशके शौचवादिदोषा बहुप्रकारः शय्याविवेकश्च-त्यागश्च प्रतिपाद्यत इत्ययमर्थाधिकारः २॥ तइए जयंतछलणा सज्झायस्सऽणुवरोहि जइयव्वं । समविसमाईएसु य समणेणं निजरहाए ३ ॥ ३०४॥ _तृतीयोद्देशके यतमानस्य-उद्गमादिदोषपरिहारिणः साधोर्या छलना स्यात्तपरिहारे यतितव्यं, तथा स्वाध्यायानुपरोधिनि समविषमादौ प्रतिश्रये साधुना निर्जरार्थिना स्थातव्यमित्ययमर्थाधिकारः ३ ॥ गतो निर्युक्त्यनुगमः, अधुना सूत्रानुगमे सूत्रमुचारयितव्यं, तच्चेदम् For Personal & Private Use Only Jan Educon International www.jainelibrary.org
SR No.600217
Book TitleAcharangsutram Part 02
Original Sutra AuthorShilankacharya
Author
PublisherAgamoday Samiti
Publication Year1916
Total Pages232
LanguageSanskrit
ClassificationManuscript & agam_acharang
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy