SearchBrowseAboutContactDonate
Page Preview
Page 77
Loading...
Download File
Download File
Page Text
________________ तत्थ वसंति संभोइया समणुना अपरिहारिया अदूरगया, तेसिं अणुप्पयायव्वं सिया, नो जत्थ साहम्मिया जहेब बहुपरियावन्नं कीरइ तहेव कायव्वं सिया, एवं खलु० ॥ (सू० ५९) ॥२-१-१-१०॥ पिण्डैषणायां दशम उद्देशकः ॥ स भिक्षZहादौ प्रविष्टः, तस्य च स्यात्-कदाचित् 'परः' गृहस्थः 'अभिहट्ट अंतो' इति अन्तः प्रविश्य पतनहे-काष्ठ|च्छब्बकादौ ग्लानाद्यर्थ खण्डादियाचने सति 'बिडं वा लवणं' खनिविशेषोत्पन्नम् 'उद्भिजं वा' लवणाकराद्युत्पन्नं 'परिभाएत्त'त्ति दातव्यं विभज्य दातव्यद्रव्यात्कञ्चिदंशं गृहीत्वेत्यर्थः, ततो निःसृत्य दद्यात्, तथाप्रकारं परहस्तादिगतमेव प्रतिषेधयेत्, तच्च 'आहच्चेति सहसा प्रतिगृहीतं भवेत् , तं च दातारमदूरगतं ज्ञात्वा स भिक्षुस्तल्लवणादिकमादाय तसमीपं गच्छेद्, गत्वा च पूर्वमेव तल्लवणादिकम् 'आलोकयेत्' दर्शयेद्, एतच्च ब्रूयाद्-अमुक! इति वा भगिनि! इति वा, एतच्च लवणादिकं किं त्वया जानता दत्तमुताजानता?, एवमुक्तः सन् पर एवं वदेद्-यथा पूर्व मयाऽजानता दत्तं, साम्प्रतं तु यदि भवतोऽनेन प्रयोजनं ततो दत्तम् , एतत्सरिभोगं कुरुध्वं, तदेवं परैः समनुज्ञातं समनुसृष्टं सत्तासुकं कारणवशादप्रासुकं वा भुञ्जीत पिबेद्वा, यच्च न शक्नोति भोक्तुं पातुं वा तत्साधर्मिकादिभ्यो दद्यात्, तदभावे बहुपर्यापन्नविधि प्राक्तनं विदध्यात्, एतत्तस्य भिक्षोः सामग्र्यमिति ॥ प्रथमस्य दशमः समाप्तः॥२-१-१-१०॥ उक्तो दशमः, अधुनैकादशः समारभ्यते, अस्य चायमभिसम्बन्धः-इहानन्तरोद्देशके लब्धस्य पिण्डस्य विधिरुक्तः, तदिहापि विशेषतः स एवोच्यते dain Education International For Personal & Private Use Only www.janelibrary.org
SR No.600217
Book TitleAcharangsutram Part 02
Original Sutra AuthorShilankacharya
Author
PublisherAgamoday Samiti
Publication Year1916
Total Pages232
LanguageSanskrit
ClassificationManuscript & agam_acharang
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy