________________
उक्तोऽष्टमोद्देशकः, साम्प्रतं नवम आरभ्यते, अस्य चायमभिसम्बन्धः - इहानन्तरमनेषणीय पिण्डपरिहार उक्तः, इहापि प्रकारान्तरेण स एवाभिधीयते—
इह खलु पाईणं वा ४ संतेगइया सड्डा भवंति, गाहावई वा जाव कम्मकरी वा, तेसिं च णं एवं वृत्तपुव्वं भवइ-जे इमे भवंति समणा भगवंता सीलवंतो वयवंतो गुणवंतो संजया संवुडा बंभयारी उवरया मेहुणाओ धम्माओ, नो खलु एएसिं कप्पइ आहाकम्मिए असणे वा ४ भुत्तए वा पायए वा, से जं पुण इमं अम्हं अप्पणो अट्ठाए निट्ठियं तं असणं ४ संव्वमेयं समणाणं निसिरामो, अवियाई वयं पच्छा अप्पणो अट्ठाए असणं वा ४ चेइस्सामो, एयप्पगारं निग्घोसं सुचा निसम्म तहप्पगारं असणं वा ४ अफासुयं० ॥ ( सू० ४९ )
'इहे'ति वाक्योपन्यासे प्रज्ञापकक्षेत्रे वा, खलुशब्दो वाक्यालङ्कारे प्रज्ञापकाद्यपेक्षया प्राच्यादौ दिशि सन्ति-विद्यन्ते पुरुषाः तेषु च केचन श्रद्धालवो भवेयुः ते च श्रावकाः प्रकृतिभद्रका वा, ते चामी -गृहपतिर्यावत्कर्मकरी वेति, तेषां | चेदमुक्तपूर्वं भवेत् — 'णम्' इति वाक्यालङ्कारे, ये इमे 'श्रमणाः साधवो भगवन्तः 'शीलवन्तः' अष्टादशशीलाङ्गसहस्रधारिणः 'व्रतवन्तः' रात्रिभोजन विरमणषष्ठपञ्चमहाव्रतधारिणः 'गुणवन्तः' पिण्डविशुद्ध्याद्युत्तरगुणोपेताः 'संयताः' इन्द्रि यनोइन्द्रियसंयमवन्तः 'संवृताः पिहितास्रवद्वारा: 'ब्रह्मचारिणः' नवविधब्रह्मगुप्तिगुप्ताः 'उपरता मैथुनाद्धर्मात्' अष्टादशविकल्पब्रह्मोपेता (संयता):, एतेषां च न कल्पते आधाकर्मिकमशनादि भोक्तुं पातुं वा, अतो यदात्मार्थमस्माकं निष्ठितं - सिद्धमशनादि ४ तत्सर्वमेतेभ्यः श्रमणेभ्यः 'णिसिरामो' त्ति प्रयच्छामः, अपि च-वयं पश्चादात्मार्थमशनाद्यन्यत् "चेत
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org