________________
श्रुतस्क०२
श्रीआचा- राङ्गवृत्तिः (शी०)
पिण्डैष०१ उद्देशः६
॥३४२॥
ष्टम्-अच्छटिततन्दुलचूर्णः, कुक्कुसाः-प्रतीताः, 'उक्कुईति पीलुपर्णिकादेरुदूखलचूर्णितमार्द्रपर्णचूर्णमित्येवमादिना सस्त्रि- ग्धेन हस्तादिना दीयमानं न गृह्णीयात्, इत्येवमादिना तु असंसृष्टेन तु गृह्णीयादिति । अथ पुनरेवं जानीयान्नोऽसंसृष्टः किं तर्हि?-संसृष्टस्तज्जातीयेनाहारादिना तेन संसृष्टेन हस्तादिना प्रासुकमेषणीयमिति गृह्णीयात् , अत्र चाष्टौ भङ्गाः, तद्यथा-"असंसहे हत्थे असंसहे मत्ते निरवसेसे दवे” इत्येकैकपदव्यभिचारान्नेयाः, स्थापना चेयम्-अथ पुनरसौ भिक्षुरेवं जानीयात् , तद्यथा-उदकादिनाऽसंसृष्टो हस्तादिस्ततो गृह्णीयात् , यदिवा तथाप्रकारेण दातव्यद्रव्यजातीयेन संसृष्टो हस्तादिस्तेन तथा प्रकारेण हस्तादिना दीयमानमाहारादिकं प्रासुकमेषणीयमितिकृत्वा प्रतिगृह्णीयादिति॥ किश्च
से भिक्खू वा २ से जं पुण जाणिज्जा पिहुयं वा बहुरयं वा जाव चाउलपलंब वा असंजए भिक्खुपडियाए चित्तमंताए सिलाए जाव संताणाए कुट्टिसु वा कुटुिंति वा कुट्टिस्संति वा उप्फणिंसु वा ३ तहप्पगारं पिहुयं वा० अप्फासुयं नो पडिगाहिज्जा ॥ (सू० ३४) स भिक्षुर्भिक्षार्थ गृहपतिकुलं प्रविष्टः सन् यदि पुनरेवं विजानीयात् , तद्यथा-'पृथुक' शाल्यादिलाजान् 'बहुरयति पहुंकं 'चाउलपलंब ति अर्द्धपक्कशाल्यादिकणादिकमित्येवमादिकम् 'असंयतः' गृहस्थः 'भिक्षुप्रतिज्ञया' भिक्षुमुद्दिश्य चित्तमत्यां शिलायां तथा सबीजायां सहरितायां साण्डायां यावन्मर्कटसन्तानोपेतायाम् 'अकुट्टिषुः' कुट्टितवन्तः तथा कुट्टन्ति कुटिष्यन्ति वा, एकवचनाधिकारेऽपि छान्दसत्वात्तिव्यत्ययेन बहुवचनं द्रष्टव्यं, पूर्वत्र वा जातावेकवचनं,
॥३४२॥
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org