SearchBrowseAboutContactDonate
Page Preview
Page 51
Loading...
Download File
Download File
Page Text
________________ गृहपते ! भगिनि ! इति वा इत्याद्यामन्त्रय दास्यसि मेऽस्मादाहारजातादन्यतरद्भोजनजातमित्येवं याचेत, तच्च न वर्त्तते कर्त्तु, कारणे वा सत्येवं वदेत्-अथ 'से' तस्य भिक्षोरेवं वदतो याचमानस्य परो गृहस्थः कदाचिद्धस्तं मात्रं दव भाजनं वा 'शीतोदकविकटेन' अप्कायेन 'उष्णोदकविकटेन' उष्णोदकेनामासुकेनात्रिदण्डोद्वृत्तेन पश्चाद्वा सचित्तीभूतेन 'उच्छोलेज्जत्ति सकृदुदकेन प्रक्षालनं कुर्यात्, 'पहोएज'त्ति प्रकर्षेण वा हस्तादेर्द्धावनं कुर्यात् स भिक्षुर्हस्तादिकं पूर्व| मेव प्रक्षाल्यमानमालोचयेद्, दत्तावधानो भवेदित्यर्थः तच्च प्रक्षाल्यमानमालोच्यामुक इत्येवं स्वनामग्राहं निवारयेद्, यथा - मैवं कृथास्त्वमिति, यदि पुनरसौ गृहस्थो हस्तादिकं सचित्तोदकेन प्रक्षाल्य दद्यात्तदप्रासुकमिति ज्ञात्वा न प्रतिगृ| हीयादिति ॥ किञ्च - अथासौ भिक्षुर्गृहपतिकुलं प्रविष्टः सन् यदि पुनरेवं विजानीयात्, तद्यथा - 'नो' नैव साधुभिक्षादानार्थ पुरः- अग्रतः कृतं प्रक्षालनादिकं कर्म - क्रिया यस्य हस्तादेः स तथा तेनोदकेनार्द्रेणेति - गलद्विन्दुनेति, एतदुक्तं भवति-साधुभिक्षादानार्थं नैव हस्तादिकं प्रक्षालितं किन्तु तथाप्रकार एव स्वतः कुतोऽप्यनुष्ठानादुदकाद्र हस्तस्तेन, एवं मात्रादिना ऽपि गलद्विन्दुना दीयमानं चतुर्विधमप्याहारमप्रासुकमनेपणीयमिति मत्वा नो गृह्णीयादिति ॥ अथ पुनरेवं विजानीयात्, तद्यथा - नैव 'उदकार्द्रेण' गलद्विन्दुना हस्तादिना दद्यात् किन्तु 'सस्निग्धेन' शीतोदकस्तिमितेनापि हस्तादिना दीयमानं न प्रतिगृह्णीयात्, 'एव' मिति प्राक्तनं न्यायमतिदिशति यथोदकस्निग्धेन हस्तेन न ग्राह्यं तथाऽन्येन रजसाऽपि एवं मृत्तिकाद्यप्यायोज्यमिति, तत्रोषः - क्षारमृत्तिका हरितालहिङ्गुलकमनःशिलाऽञ्जनलवणगेरुकाः प्रतीताः, सचित्ताश्च खनिविशेषोत्पत्तेः, वर्णिका-पीतमृत्तिका, सेटिका - खटिका, सौराष्ट्रका - तुबरिका, पि Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.600217
Book TitleAcharangsutram Part 02
Original Sutra AuthorShilankacharya
Author
PublisherAgamoday Samiti
Publication Year1916
Total Pages232
LanguageSanskrit
ClassificationManuscript & agam_acharang
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy