SearchBrowseAboutContactDonate
Page Preview
Page 40
Loading...
Download File
Download File
Page Text
________________ श्रीआचा- राङ्गवृत्तिः (शी०) वदनः प्राघूर्णकभिक्षुभिः सार्द्ध गृहपतिकुलं पिण्डपातप्रतिज्ञया प्रवेक्ष्यामि निष्क्रमिष्यामि चेत्यभिसन्धिना मातृस्थान | श्रुतस्क०२ संस्पृशेदसावित्यतः प्रतिषिध्यते-नैवं कुर्यादिति ॥ कथं च कुर्यादित्याह चूलिका १ । 'सः' भिक्षुः 'तत्र' ग्रामादौ प्राघूर्णकभिक्षुभिः सार्द्ध 'कालेन' भिक्षावसरेण प्राप्तेन गृहपतिकुलमनुप्रविश्य तत्र 'इत-पिण्डैष०१ कारतरेभ्यः' उच्चावचेभ्यः कुलेभ्यः 'सामुदानिक' भिक्षापिण्डम् 'एषणीयम्' उद्गमादिदोषरहितं 'वैषिक' केवलवेषावाप्तं || उद्देशः ४ धात्रीदूतनिमित्तादिपिण्डदोषरहितं 'पिण्डपातं' भैक्षं प्रतिगृह्य प्राघूर्णकादिभिः सह ग्रासैषणादिदोषरहितमाहारमाहारयेद् , एतत्तस्य भिक्षोः 'सामग्र्यं' संपूर्णो भिक्षुभाव इति ॥ प्रथमस्य चतुर्थः समाप्तः १-१-४॥ ॥३३६॥ उक्तश्चतुर्थोद्देशकः, अधुना पञ्चमः समारभ्यते, अस्य चायमभिसम्बन्धः-इहानन्तरोद्देशके पिण्डग्रहणविधिरभिहितः, अत्रापि स एवाभिधीयत इत्याह से मिक्खू वा २ जाव पविढे समाणे से जं पुण जाणिज्जा-अग्गपिंडं उक्खिप्पमाणं पेहाए अग्गपिंडं निक्खिप्पमाणं पेहाए अग्गपिंडं हीरमाणं पेहाए अग्गपिंडं परिभाइजमाणं पहाए अग्गपिंडं परिभुजमाणं पेहाए अग्गपिंडं परिहविजमाणं पेहाए पुरा असिणाइ वा अवहाराइ वा पुरा जत्थऽण्णे समण वणीमगा खद्धं २ उवसंकमंति से हंता अहमवि खद्धं २ उवसंक मामि, माइट्ठाणं संफासे, नो एवं करेज्जा ॥ (सू० २५) स भिक्षुर्गृहपतिकुलं प्रविष्टः सन् यत्पुनरेवं जानीयात्तद्यथा-अग्रपिण्डो-निष्पन्नस्य शाल्योदनादेराहारस्य देवताद्यर्थ ॥३३६॥ Jain Educationa l For Personal & Private Use Only www.jainelibrary.org
SR No.600217
Book TitleAcharangsutram Part 02
Original Sutra AuthorShilankacharya
Author
PublisherAgamoday Samiti
Publication Year1916
Total Pages232
LanguageSanskrit
ClassificationManuscript & agam_acharang
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy