________________
वेसियं पिंडवायं पडिगाहित्ता आहारं आहारिजा, एयं खलु तस्स भिक्खुस्स वा मिक्खुणीए वा सामग्गिय० (सू०२४)॥
१-१-४॥ पिण्डैषणायो चतुर्थ उद्देशकः ॥ भिक्षणशीला भिक्षुका नामैके साधवः केचनैवमुक्तवन्तः, किम्भूतास्ते इत्याह-'समानाः' इति जडतबलपरिक्षीणतयैकस्मिन्नेव क्षेत्रे तिष्ठन्तः, तथा 'वसमानाः' मासकल्पविहारिणः, त एवंभूताः प्राघूर्णकान् समायातान् ग्रोमानुग्राम यमानान्-गच्छत एवमूचुः-यथा क्षुल्लकोऽयं ग्रामोऽल्पगृहभिक्षादो वा, तथा संनिरुद्धः-सूतकादिना, नो महानिति पुनवचनमादरख्यापनार्थम् , अतिशयेन क्षुल्लक इत्यर्थः, ततो हन्त! इत्यामन्त्रणं, यूयं भवन्तः-पूज्या बहिामेषु भिक्षाचर्यार्थ व्रजतेत्येवं कुर्यात् , यदिवा तत्रैकस्य वास्तव्यस्य भिक्षोः 'पुरःसंस्तुताः' भ्राव्यादयः ‘पश्चात्संस्तुताः' श्वशुरकुलसंबद्धाः परिवसन्ति, तान् स्वनामग्राहमाह, तद्यथा-गृहपतिर्वेत्यादि सुगमं यावत्तथाप्रकाराणि कुलानि पुरःपश्चात्संस्तुतानि पूर्वमेव भिक्षाकालादहमेतेषु भिक्षार्थ प्रवक्ष्यामि, अपि चैतेषु स्वजनादिकुलेष्वभिप्रेतं लाभ लप्स्ये, तदेव दर्शयति-'पिण्डं' शाल्योदनादिकं 'लोयम्' इतीन्द्रियानुकूलं रसाधुपेतमुच्यते, तथा क्षीरं वेत्यादि सुगम यावत्सिहरिणीं वेति, नवरं मद्यमांसे छेदसूत्राभिप्रायेण व्याख्येये, अथवा कश्चिदतिप्रमादावष्टब्धोऽत्यन्तगृभुतया मधुमद्यमांसान्यप्याश्रयेदतस्तदुपादानं, 'फाणिय'ति उदकेन द्रवीकृतो गुडः क्वथितोऽकथितो वा शिखरिणी मार्जिता, तल्लब्धं पूर्वमेव भुक्त्वा पेयं च पीत्वा पतगृहं संलिह्य निरवयवं कृत्वा संमृज्य च वस्त्रादिनाऽऽर्द्रतामपनीय ततः पश्चादुपागते भिक्षाकालेऽविकृत
Fer
Jan Education International
For Personal & Private Use Only
www.jainelibrary.org