________________
स भिक्षुर्गच्छनिर्गतो जिनकल्पिकादिर्गृहपतिकुलं प्रवेष्टुकामः 'सर्व' निरवशेषं 'भण्डकं' धर्मोपकरणम् 'आदाय' गृहीत्वा गृहपतिकुलं पिण्डपातप्रतिज्ञया प्रविशेद्वा ततो निष्क्रामेद्वा । तस्य चोपकरणमनेकधेति, तद्यथा - " दुग तिग चक्क पंचग नव दस एक्कारसेव बारसहेत्यादि । तत्र जिनकल्पिको द्विविधः - छिद्रपाणिरच्छिद्रपाणिश्च तत्राच्छिद्रपाणेः शक्त्यनुरूपाभिग्रहविशेषाद् द्विविधमुपकरणं, तद्यथा - रजोहरणं मुखवस्त्रिका च, कस्यचित्त्वक्त्राणार्थं क्षौमपटपरिग्रहात्रिविधम्, अपरस्योदकबिन्दुपरितापादिरक्षणार्थमौर्णिकपटपरिग्रहाच्चतुर्द्धा, तथाऽसहिष्णुतरस्य द्वितीयक्षौमपटपरिग्रहापञ्चधेति । छिद्रपाणेस्तु जिनकल्पिकस्य सप्तविधपात्रनिर्योगसमन्वितस्य रजोहरणमुख वस्त्रिकादिग्रहणक्रमेण यथायोगं नवविधो दशविध एकादशविधो द्वादशविधश्चोपधिर्भवति, पात्रनिर्योगश्च - "पेत्तं १ पत्ताबंधो २ पायडवणं ३ च पायकेसरिया ४ । पडलाइ ५ रयत्ताणं ६ च गोच्छओ ७ पायनिज्जोगो ॥ १ ॥” अन्यत्रापि गच्छता सर्वमुपकरणं गृहीत्वा गन्तव्यमित्याह - स भिक्षुग्रमादेर्वहिर्विहारभूमिं स्वाध्यायभूमिं वा तथा 'विचारभूमिं विष्ठोत्सर्गभूमिं सर्वमुपकरणमादाय प्रविशेन्निष्क्रामेद्वा एतद्वितीयं, एवं ग्रामान्तरेऽपि तृतीयं सूत्रम् ॥ साम्प्रतं गमनाभावे निमित्तमाह
Jain Education International
से भिक्खू० अह पुण एवं जाणिज्जा —– तिव्वदेसियं वासं वासेमाणं पेहाए तिव्वदेसियं महियं संनिचयमाणं पेहाए महवाएण वा रयं समुद्धयं पेहाए तिरिच्छसंपाइमा वा तसा पाणा संथडा संनिचयमाणा पेहाए से एवं नचा नो सव्वं भंडग
१ पात्रं पात्रबन्धः पात्रस्थापनं च पात्रकेशरिका । पटलानि रजस्त्राणं च गोच्छकः पात्रनिर्योगः ॥ १ ॥
For Personal & Private Use Only
www.jainelibrary.org