SearchBrowseAboutContactDonate
Page Preview
Page 31
Loading...
Download File
Download File
Page Text
________________ भवइ, दंडेण वा अट्ठीण वा मुट्ठीण वा लेलुणा वा कवालेण वा अभिहयपुव्वेण वा भवइ, सीओदएण वा उस्सित्तपुब्वे भवइ, रयसा वा परिघासियपुव्वे भवइ, अणेसणिज्जे वा परिभुत्तपुव्वे भवइ, अन्नेसिं वा दिज्जमाणे पडिग्गाहियपुव्वे भवइ, तम्हा से संजए नियंठे तहप्पगारं आइन्नावमा णं संखर्डि संखडिपडियाए नो अभिसंधारिजा गमणाए । (सू. १७) स भिक्षुर्यदि पुनरेवंभूतं ग्रामादिकं जानीयात्, तद्यथा-प्रामे वा नगरे वा यावद्राजधान्यां वा सङ्घडिर्भविष्यति, तत्र च चरकादयोऽपरे वा भिक्षाचराः स्युरतस्तदपि ग्रामादिकं सङ्घडिप्रतिज्ञया 'नाभिसन्धारयेद्गमनाय' न तत्र गमनं कुर्यादित्यअर्थः ॥ तद्गतांश्च दोषान् सूत्रेणैवाह — केवली ब्रूयाद् यथैतदादानं - कर्मोपादानं वर्त्तत इति दर्शयति-सा च सङ्घडिः आकीर्णा वा भवेत् - चरकादिभिः सङ्कुला 'अवमा' हीना शतस्योपस्कृते पञ्चशतोपस्थानादिति, तां चाकीर्णामवमां चानुप्रविशतोऽमी | दोषाः, तद्यथा- पादेन परस्य पाद आक्रान्तो भवेत् हस्तेन वा हस्तः संचालितो भवेत्, 'पात्रेण वा' भाजनेन वा 'पात्रं ' भाजनमापतितपूर्वं भवेत्, शिरसा वा शिरः सङ्घट्टितं भवेत्, कायेनापरस्य - चरकादेः कायः सङ्क्षोभितपूर्वो भवेदिति, स च चरकादिरारुषितः कलहं कुर्यात्, कुपितेन च तेन दण्डेनास्था वा मुष्टिना वा लोष्ठेन वा कपालेन वा साधुरभिहतपूर्वो भवेत्, तथा शीतोदकेन वा कश्चित्सिञ्चेत्, रजसा वा परिधर्षितो भवेत् । एते तावत्सङ्कीर्णदोषाः, अवमदोषाश्चामी -अनेषणीयपरिभोगो भवेत्, स्तोकस्य संस्कृतत्वात्मभूतत्वाच्चार्थिनां, प्रकरणकारस्यायमाशयः स्याद्-यथा मत्प्रकरणमुद्दिश्यैते समायातास्तत एतेभ्यो मया यथाकथञ्चिदेयमित्यभिसन्धिनाऽऽधाकर्माद्यपि कुर्याद्, अतोऽनेषणीयपरिभोगः स्यादिति, कदाचिद्वा दात्राऽन्यस्मै दातुमभिवाञ्छितं तच्चान्यस्मै दीयमानमन्तराले साधुर्गृह्णीयात्, तस्मादेतान् दोषानभिसंप्रधार्य Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.600217
Book TitleAcharangsutram Part 02
Original Sutra AuthorShilankacharya
Author
PublisherAgamoday Samiti
Publication Year1916
Total Pages232
LanguageSanskrit
ClassificationManuscript & agam_acharang
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy