________________
रनुपलब्धैर्वा 'न सङ्गं कुर्यात्' न रागं गच्छेत् न गाय प्रतिपद्येत न तेषु मुह्येत नाध्युपपन्नो भवेत् , एतत्तस्य भिक्षोः सामग्र्यं, शेषं पूर्ववत्, इह च सर्वत्रायं दोषः-अजितेन्द्रियत्वं स्वाध्यायादिहानी रागद्वेषसम्भव इति, एवमन्येऽपि दोषा ऐहिकामुष्मिकापायभूताः स्वधिया समालोच्या इति॥चतुर्थसप्तैककाध्ययनमादित एकादर्श समाप्तम् ॥२-२-४-११॥
RRRRRRHH theo
अथ पञ्चमं रूपसप्तैककमध्ययनम् । चतुर्थसप्तककानन्तरं पञ्चमं समारभ्यते, अस्य चायमभिसम्बन्धः-इहानन्तरं श्रवणेन्द्रियमाश्रित्य रागद्वेषोत्पत्तिर्निषिद्धा तदिहापि चक्षुरिन्द्रियमाश्रित्य निषिध्यते, इत्यनेन सम्बन्धेनायातस्यास्याध्ययनस्य नामनिष्पन्ने निक्षेपे रूपसप्तैकक इति नाम, तत्र रूपस्य चतुर्धा निक्षेपः, नामस्थापने अनादृत्य द्रव्यभावनिक्षेपार्थ नियुक्तिकृद् गाथाऽर्द्धमाह
दव्वं संठाणाई भावो वन्न कसिणं सभावो य। व्वं सद्दपरिणयं भावो उ गुणा य कित्ती य ॥३२४॥ तत्र द्रव्यं नोआगमतो व्यतिरिक्तं पञ्च संस्थानानि परिमण्डलादीनि, भावरूपं द्विधा-वर्णतः स्वभावतश्च, तत्र वर्णतः कृत्स्नाः पञ्चापि वर्णाः, स्वभावरूपं त्वन्तर्गतक्रोधादिवशाद्भूभङ्गललाटनयनारोपणनिष्ठुरवागादिकम् , एतद्विपरीतं प्रसनस्येति, उक्तञ्च-"रुढस्स खरा दिट्ठी उप्पलधवला पसन्नचित्तस्स । दुहियस्स ओमिलायइ गंतुमणस्सुस्सुआ होइ ॥१॥" सूत्रानुगमे सूत्रं, तच्चेदम्
१ रुष्टस्य खरा दृष्टिः उत्पलधवला प्रसन्नचित्तस्य । दुःखितस्यावम्लायति गन्तुमनस उत्सुका भवति ॥१॥
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org