________________
श्रीआचा राङ्गवृत्तिः
(शी०)
॥ ४११ ॥
क्षुरभिनवासु मृत्खनिषु तथा नवासु गोप्रहेल्यासु 'गवादनीषु' सामान्येन वा गवादनीषु खनीषु वा नोच्चारादि विदध्यादिति ॥ किञ्च - 'डाग'त्ति डालप्रधानं शाकं पत्रप्रधानं तु शाकमेव तद्वति स्थाने, तथा मूलकादिवति च नोच्चारादि कुर्यादिति ॥ तथा - अशनो - बीयकस्तद्वनादौ च नोच्चारादि कुर्यादिति, तथा पत्रपुष्पफलाद्युपेतेष्विति ॥ कथं चोचारादि कुर्यादिति दशर्यति -
से भि० सयपाययं वा परपाययं वा गहाय से तमायाए एगंतमवक्कमे अणावायंसि असंलोयंसि अप्पपाणंसि जाव मक्कडासंताणयंसि अहारामंसि वा उवस्सयंसि तओ संजयामेव उच्चारपासवणं वोसिरिजा, से तमायाए एगंतमवक्कमे अणाबाहंसि जाव संताणयंसि अहारामंसि वा झामथंडिलंसि वा अन्नयरंसि वा तह० थंडिल्लंसि अचित्तंसि तओ संजयामेव उच्चारपासवणं वोसिरिज्जा, एयं खलु तस्स० सया जइज्जासि ( सू० १६७ ) त्तिबेमि ॥ उच्चारपासवणसत्तिकओ सम्मत्तो ॥ २-२-३ ॥ स भिक्षुः स्वकीयं परकीयं वा 'पात्रकं' समाधिस्थानं गृहीत्वा स्थण्डिलं वाडनापातमसंलोकं गत्वोच्चारं प्रस्रवणं वा 'कुर्यात्' प्रतिष्ठापयेदिति, शेषमध्ययनसमाप्तिं यावत्पूर्ववदिति ॥ तृतीयं सप्त कैकाध्ययनमादितो दशमं समाप्तम् ॥२-२-३-१०
तृतीयानन्तरं चतुर्थः सप्तैककः समारभ्यते, अस्य चायमभिसम्बन्धः - इहाद्ये स्थानं द्वितीये स्वाध्यायभूमिस्तृतीये उच्चारादिविधिः प्रतिपादितः, तेषु च वर्त्तमानो यद्यनुकूल प्रतिकूलशब्दान् शृणुयात्तेष्वरक्तद्विष्टेन भाव्यम्, इत्यनेन
Jain Education International
For Personal & Private Use Only
श्रुतस्कं०२ चूलिका २
उच्चारप्र
श्रवणा.
३- (१०)
॥ ४११ ॥
www.jainelibrary.org