SearchBrowseAboutContactDonate
Page Preview
Page 173
Loading...
Download File
Download File
Page Text
________________ | श्राम्यतीति श्रमणः-तपस्वी यतोऽहमत एवंभूतो भविष्यामीति दर्शयति-अनगारः' अगा-वृक्षास्तैर्निष्पन्नमगारं तन्न विद्यत इत्यनगारः, त्यक्तगृहपाश इत्यर्थः, तथा 'अकिञ्चनः' न विद्यते किमप्यस्येत्यकिञ्चनो, निष्परिग्रह इत्यर्थः, तथा 'अपुत्रः' स्वजनबन्धुरहितो, निर्मम इत्यर्थः, एवम् 'अपशुः' द्विपदचतुष्पदादिरहितः, यत एवमतः परदत्तभोजी सन् पापं कर्म न करिष्यामीत्येवं समुत्थायैतत्प्रतिज्ञो भवामीति दर्शयति-यथा सर्व भदन्त ! अदत्तादानं प्रत्याख्यामि, दन्तशोधनमात्रमपि परकीयमदत्तं न गृह्णामीत्यर्थः, तदनेन विशेषणकदम्बकेनापरेषां शाक्यसरजस्कादीनां सम्यक्त्रमणत्वं निराकृतं भवति, स चैवंभूतोऽकिञ्चनः श्रमणोऽनुप्रविश्य ग्रामं वा यावद्राजधानी वा नैव स्वयमदत्तं गृह्णीयात् नैवापरेण ग्राहयेत् नाप्यपरं गृह्णन्तं समनुजानीयात् , यैर्वा साधुभिः सह सम्यक् प्रव्रजितस्तिष्ठति वा तेषामपि सम्बन्ध्यु|पकरणमननुज्ञाप्य न गृह्णीयादिति दर्शयति, तद्यथा-छत्रकमिति 'छद अपवारणे' छादयतीति छत्रं-वर्षाकल्पादि, यदिवा कारणिकः क्वचित्कुणदेशादावतिवृष्टिसम्भवाच्छत्रकमपि गृह्णीयाद् यावच्चमच्छेदनकमप्यननुज्ञाप्याप्रत्युपेक्ष्य च नावगृह्णीयात् सकृत् प्रगृह्णीयादनेकशः। तेषां च सम्बन्धि यथा गृह्णीयात्तथा दर्शयति-पूर्वमेव ताननुज्ञाप्य प्रत्युपेक्ष्य चक्षुषा प्रमृज्य रजोहरणादिना सकृदनेकशो वा गृह्णीयादिति ॥ किञ्च से मि० आगंतारेसु वा ४ अणुवीइ उग्गहं जाइजा, जे तत्थ ईसरे जे तत्थ समहिए ते उग्गहं अणुन्नविजा-कामं खलु आउसो०! अहालंदं अहापरिन्नायं वसामो जाव आउसो! जाव आउसंतस्स उग्गहे जाव साहम्मिया एइतावं उग्गहं उग्गिहिस्सामो, तेण पर विहरिस्सामो ॥ से किं पुण तत्थोग्गहंसि एवोग्गहियंसि जे तत्थ साहम्मिया संभोइया समणुन्ना उवागा मा.सू. ६८ dan Education International For Personal & Private Use Only www.iainelibrary.org
SR No.600217
Book TitleAcharangsutram Part 02
Original Sutra AuthorShilankacharya
Author
PublisherAgamoday Samiti
Publication Year1916
Total Pages232
LanguageSanskrit
ClassificationManuscript & agam_acharang
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy